________________
श्रीदशवैकालिकसूत्रम्
२४५ तासां प्रार्थयमानानां, विवाहाय जगत्प्रभुम् । केशवोऽपि सहायोऽभूत्, कृतप्रभुकरग्रहः ।।२४७० ।।
अन्येऽपि यदवः केचि-दंयोर्दोष्णोश्च केचन । विलग्य मानयामासु-रुद्वोढुं यदुभिः प्रभुम् ।।२४७१ ।। एवमत्याग्रहात् तेषा-मज्ञानां ज्ञातवान् प्रभुः । कालक्षेपाय तद्वाचं, भगवान् प्रत्यपद्यत ।।२४७२।। तं वृत्तान्तं समाकर्ण्य, कर्णपीयूषसोदरम् । शिवासमुद्रविजयौ, परमानन्दमापतुः ।।२४७३।।
ततः स्थानान्निदाघर्तु-मतिवाह्य चतुर्भुजः । द्वारवत्याममान्नेमि-योग्यां कन्यां निरीक्षितुम् ।।२४७४ ।। सत्यभामा बभाषेऽथ, विष्णुं स्वामिन् ! ममानुजा ।
अस्ति राजीमती नाम, वामनेत्राशिरोमणिः ।।२४७५ ।। ऊचे हृष्टो हरिः सत्यां, सत्ये! सत्यं हितैव मे । श्रीनेमेरनुरूपां यत्, कन्यां कथितवत्यसि ।।२४७६।। अथोत्थाय हरिः प्रातः, स्वयं सबलवाहनः । औग्रसेनं ययौ सौध-मुदयादिमिवार्यमा ।।२४७७ ।। सहसाभ्यागतं विष्णु-मभ्युत्थायोग्रसेनराट् । दत्वा रत्नासनं तस्थौ, तस्याग्रे शिष्यवद् गुरोः ।।२४७८ ।। अप्राक्षीञ्च क्षमाध्यक्षं, को हेतुः स्वयमागमे ? । युष्मन्मानुषमात्रेणा-प्यर्थः सर्वोऽपि सिध्यति ।।२४७९।। कृष्णोऽप्युवाच ते राजन्!, राजीमत्यस्ति या सुता । सा श्रीनेमिकुमारस्या-नुरूपेति प्रदीयताम् ।।२४८० ।। उग्रसेनोऽप्यदोऽवादीद्, भाग्यं मे सर्वतोऽधिकम् । स्वयं पवित्रयामास, भवन्तो यद् गृहाङ्गणम् ।।२४८१।। दीयतां दुहितात्मीया, नेमेरिति किमुच्यते ? ।
तवाधीनमिदं सर्वं, स्वाधीने प्रार्थनात्र का ? ।।२४८२।। • विष्णु भामा बभाषेऽथ स्वामिन्नस्ति २.६-१० ।। • स्वसा २.६-१० ।। - हरिर्यन्मे गृ० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org