________________
२४४ . श्रीतिलकाचार्यविरचितटीकायुतम्
भ्रमन्त्यः परितो नेमेः, पन्यः कृष्णस्य काश्चन । हल्लिसकेन ननृतु-र्जलदेव्य इव श्रिया ।।२४५७।। निर्विकारः प्रभुर्नेमि-रऽचिक्रीडत् प्रेजावतीः । कृतप्रतिकृतैः सर्वा, नर्मकर्मसु कर्मठाः ।।२४५८ ।। इत्थं ग्रीष्मातपं तत्र, प्रशमय्य जनार्दनः । निर्ययौ सरसो मध्यात्, समुद्राज्जलहस्तिवत् ।।२४५९।। . . रुक्मिणीसत्यभामाद्या, अपि निर्गत्य नीरतः । पोलीवनालीमाश्रित्य, पान्थपत्न्य इव स्थिताः ।।२४६०।। निर्ययौ स्वाम्यपि तदा, सरसः कलहंसवत् । । रुक्मिण्यादिभिराकार्या-नीयते स्म स्वसन्निधौ ।।२४६१।। ददौ तत्र स्वयं हृष्टा, रुक्मिणी रुक्मविष्टरम् । ममार्जादर्शवनेमे-र्वपुः स्वोत्तरवाससा ।।२४६२।।
रुक्मिण्यथोचे श्रीनेमि, सुधारसकिरा गिरा । । ब्रवीमि त्वामहं स्नेहाद्, देव! देवर! किञ्चन ।।२४६३ ।। भ्राता तवोपयेमे स्त्री-सहस्रान् षोडशाच्युतः । न त्वं परिणयस्येका-मपि किं ? सुभगाग्रिम! ।।२४६४ ।। रूपमप्रतिरूपं ते, सौभाग्यं भाग्यसङ्गतम् । यौवनं च नवोद्भेदं, विफलीकुरुषे कथम् ? ।।२४६५ ।। श्रीनाभेयादितीर्थेशा, अपि कृत्वा करग्रहम् । सम्पन्नोत्तमसन्ताना, व्रतीभूय शिवं ययुः ।।२४६६।। ततस्त्वमपि मन्येथा, नाथ! पाणिग्रहोत्सवम् । आनन्दय पितृभ्रातृ-भ्रातृजायादिकं जनम् ।।२४६७।। आजन्मपालितात्युग्र-ब्रह्मचर्योऽपि देवर! । न सिद्धरधिकं किञ्चित्, फलमासादयिष्यसि ।।२४६८।। इत्युक्त्वा रुक्मिणीसत्य-भामाद्याः केशवस्त्रियः ।
निपेतुः पादयोर्नेमेः, कृतपाणिग्रहाग्रहाः ।।२४६९।।। १. भ्रातृपत्नीः ।। २. तीर० ।। ३. सुवर्णासनम् ।। * ०मः २६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org