SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् २४३ यस्योञ्चैः शृङ्गरङ्गे, खचरयुवतिभिः, खेलनायागताभिः, सोत्साहं सप्रमोदं, मधुरतररवै-र्बाललीलायितानि । श्रीनेमेविश्वभर्तु-मदनविजयिनो, गीयमानानि शश्वद्, गीर्वाणाः सावधानाः, पुलकिततनव-स्तारमाकर्णयन्ति ।।२४४७ ।। स्रग्धरा यः पञ्चवर्णैराकीर्णो, रत्नैर्मरकतादिभिः । वसुन्धरावधूमूर्ध्नि, किरीटमिव दीप्यते ।।२४४८।। माकन्दादिकवृक्षलक्षगहनं, यत् पार्श्वतः सर्वतो, भूमिमण्डलमण्डनं वरवनं, पुष्पैः फलैरद्भुतम् । श्रीमन्मेरुमहामहीधरतला-लङ्कारकारि स्फुरद्, विष्वग् भूमिगभद्रशालवनवद्, व्याभासते भासुरम् ।।२४४९ ।। शार्दूलविक्रीडितम् तस्यान्तःकेलिसरसी, विनिद्राम्भोजलोचना । यदुन्नीरपतत्पत्रि-रवैराह्वयते किल ।।२४५० ।। तस्यामन्तःपुरीवृन्द-सहितोऽविशदच्युतः । तदाग्रहवशः स्वामी, नेमिनाथोऽप्यमन्मथः ।।२४५१।। पयस्याकण्ठमग्नानां, तत्र वैकुण्ठयोषिताम् । भेदं नाज्ञासिषुर्भुङ्गाः, स्त्रीमुखेष्वम्बुजेषु वा ।।२४५२।। सहस्रपत्रमम्भोज, श्रीनेमेनि काचन । आतपत्रमिवाधार्षीत्, छत्रधारीव धीमती ।।२४५३।। तत्रोर्मय इव स्वैर-मुल्ललन्त्यो मृगीदृशः । आस्फलन्ति स्म सहसा, हृदि नेमिशाङ्गिणोः ।।२४५४।।. स्त्रीणां विलेपने नेत्रा-अने च क्षालितेऽम्भसा । तद्गङ्गायमुनावेणी-सङ्गमाभं सरोऽभवत् ।।२४५५।। भीतः श्रीनेमिगोविन्दौ, करस्थस्वर्णशङ्गिको । . स्थूलधारं प्रवर्षन्तौ, मेघाविव सविद्युतौ ।।२४५६।। अयं श्लोकः ९ प्रतौ नास्ति ।। - आह्वयन्तीव परभृद्, रुतैः खेलयितुं यदून् २.६-८.१० ।। - सममन्तःपीवृन्देस्तस्मिन् सरसि केशवः । सार्द्ध करेणुयूथेन, यूथाधिप इव द्विपः २.६-१० ।। १. जलप्रवाहः ।। * भ्रा० ६-१० ।। २. पीचकारी इति भाषा० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy