________________
२४२ . श्रीतिलकाचार्यविरचितटीकायुतम्
वसन्तमवसन्तं तं, विधाय वसुधातले । युक्तोंऽशुशल्यहस्तेन, भीष्मो ग्रीष्मर्तुराययौ ।।२४३६।। आदावेव स सर्वत्र, स्वर्णश्रियमपाहरत् । ततो भीतो जनश्चक्रे, श्रीखण्डेनापि निर्वृतिम् ।।२४३७ ।। तद्भट्टपुत्रवद् धर्मः प्रविश्य सदने नृणाम् । हठाद् ग्रहणकं शर्म-रूपमाकर्षति क्षणात् ।।२४३८।। . . लूकाभिधा तु तद्दासी, शाकिनीव स्वविद्यया । प्रविश्य देहिदेहान्तः, प्राणान् हरते निःकृपा ।।२४३९।। शल्यहस्त इवोदग्रः, शिशिरेतरदीधितिः । करैः सहस्रसङ्ख्यैः स्वै-विष्टपं समतापयत् ।।२४४०।। तापशान्त्यै हरिः सान्तः-पुरः श्रीनेमिना सह । तदैव रैवतोद्याने-ऽचालीत् क्रीडातडागिकाम् ।।२४४१।। दूरतोऽपि ददर्शोच्चै-रैवतं पर्वतोत्तमम् । . धम्मिल्लमिव मेदिन्याः, सपुष्पवनगर्भकम् ।।२४४२।। उदयाचलमस्ताद्रि, चौन्तरा रैवतं गिरिम् । . ज्योतिश्चक्रस्य चरतो, विश्रान्त्यै तु विधिळधात् ।।२४४३।। सभ्रङ्कषशिखैः शृङ्गे-स्तुङ्गं स्वर्णमणीमयैः । ब्रह्माण्डपतनाशङ्की, यं विधिः स्तम्भवद् व्यधात् ।।२४४४ ।। अभ्रंलिहाग्रशिखरेषु महातरूणां, शाखान्तरेषु विचरन् सवितापि यत्र । माणिक्यकान्तिपटलैः परिपाटलाङ्गो, द्रष्टुर्जनस्य कपिवत् प्रतिभासते स्म ।।२४४५।। वसन्ततिलका निस्तन्द्रचन्द्रोज्वलचन्द्रकान्त-ज्योतिष्मतीष्वग्र्यगुहासु यस्य ।
अक्लेशसाध्यं मुनिपुङ्गवानां, सम्पद्यते ध्यानवरं चतुर्थम् ।।२४४६।। इन्द्रवज्रा १. रवि २ टि० ।। २. सेलहथु ३ टि०, सूर्यरूपशस्त्रविशेषकरेण ।। * स्वर्णः २.३ ।। ३. चन्दनविलेपनेन ।। ४. सेलहथु ३ टि० ।। * स्तोऽपि तस्यायमादित्योऽपि हि दैत्यवत् २.६-१० ।। 0 चन्द्रो रैवतकम् ६-९ ।। * ०ष्टुं ज०२ ।। ५. रैवताचलस्य ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org