________________
३९
श्रीदशवकालिकसूत्रम् श्रीनेमिर्लीलयादाय, पूरयामास तं तथा । विष्णोरपि यथा जज्ञे, ब्रह्मांडस्फोटविभ्रमः ।।२३९९।।
आः! किं कल्पान्तवात-प्रहतगिरिगलद्-ग्रावसङ्घट्टघोषः, किं वाद्रीन्द्रद्रुताति-भ्रममथनचलत्-स्फारवाद्धिप्रणादः । अन्योन्यक्रुध्यदाशा-गजघटितमहा-घातदन्तध्वनिर्वा, भूभाराद् वा द्विधायत्-केमठतनुतटी-कर्परस्फोटनादः ।।२४०० ।। स्रग्घरा एवं चिन्ताप्रपन्नस्य, विष्णोरायुधशालिकः । नत्वाचख्यौ प्रभोर्नेमः, शङ्खवादनमूर्ध्वनिः ।।२४०१।। श्रीनेमिं सहसायातं, पुरः प्रेक्ष्य ससम्भ्रमः । अन्तर्भातो बहिः प्रीतः, प्राह प्रेमोज्ज्वलं हरिः ।।२४०२।। शाङ्खपूरणनादेन, जाने त्वं बलवानसि । आवाभ्यां मल्लयुद्धेना-धुना प्रेक्षिष्यते बलम् ।।२४०३।। श्रीमान्नेमिस्ततो दध्यौ, समरेऽसौ ममोरसा । कराभ्यां चरणाभ्यां चा-क्रान्तः पीडिष्यतेतमाम् ।।२४०४ ।। तत्कृपालुः प्रभुः प्राह, विरुद्धं युद्धमावयोः । बाहो मनमात्रेण, बलं विज्ञास्यते द्वयोः ।।२४०५ ।। ततस्तौ द्वौ गतौ वीरौ, वीरभूमिं खलूरिकाम् । केलिकौतूहलालोकि-यदुवृन्दपरिच्छदौ ।।२४०६।। ततः कृष्णः स्वदोर्दण्डं, वज्रदण्डमिनिमम् । दर्शयामास दुर्दर्श, दीर्घाकृत्य पुरः प्रभोः ।।२४०७ ।। श्रीनेमिर्नमयामास, लीलया पद्मनालवत् । दध्युस्तटस्थाः श्रीनेमे-रहो बलमहो बलम् ।।२४०८ ।। यस्य षोडशभिभूप-सहस्रैः सबलैरऽपि । बद्ध्वा शृङ्खलयाकृष्टो-ऽप्यसौ न चलितो भुजः ।।२४०९।।
सोऽपि कृष्णभुजोऽनेन, प्रभुणा नमितः कथम् ? । . तद् विद्मोऽस्य पुरः कोऽपि, न वीरस्त्रिजगत्यपि ।।२४१०।। १. हिंसनशील० १० टि० ।। २. कच्छप० १० टि० ।। ३. कपाल ।। * ०क्षिप्त० ६-१० ।। ४. नमितुमशक्यम्।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org