________________
२३८ . श्रीतिलकाचार्यविरचितटीकायुतम्
विष्णुरप्यागमत् तत्र, शीरिप्रद्युम्नशाम्बयुक् । छिन्ना इव त्रुटन् पाशा-स्ते तायध्वजवीक्षणात् ।।२३८७ ।। बाणोऽप्यखर्वगर्वाढ्यः, स्वस्थाम्ना शाङ्कराद् वरात् । न किञ्चिद् गणयामास, मदिरापानमत्तवत् ।।२३८८ ।। आक्षिप्य कृष्णमप्यूचे, वेत्सि त्वं मद्बलं न किम् ? । भावी यमपुरीपौरः, सहसैवं यदागतः ।।२३८९।। .. त्वत्तो युष्मत्कुले कन्या-हरणं सिद्धमस्ति यत् । प्रायश्चित्तं मया तस्य, गुरुवद् दास्यतेऽधुना ।।२३९० ।। कृष्णोऽप्युवाच मूर्खस्त्व-मकिञ्चिज्ज्ञो मुमूर्षसि । परस्त्रैणहतावेव, दोषः कन्याहृतौ न तु ।।२३९१।। इत्युक्तोऽपि कुधीर्बाणः, प्राणप्रयाणकाम्यया । गुञ्जापुञ्जार्द्धशोणाक्षः, शरांश्चिक्षेप विष्णवे ।।२३९२ ।। चक्रे त्रिविक्रमोऽप्यस्य, विशिखान् विशिखान् शरैः ।। सबाणैः सह बाणोऽभूद्, विलक्षस्तत्र स क्षणे ।।२३९३।। कृष्णः कृत्वासिपत्रेण, कूष्माण्डमिव खण्डशः । भुञ्जानस्य कृतान्तस्य, प्राहिणोत् व्यञ्जनाय तम् ।।२३९४ ।। अनिरुद्धमुषायुक्तं, विष्णुरादाय जित्वरः । सशीरिशाम्बप्रद्युम्नः, पुरीं द्वारवतीं ययौ ।।२३९५ ।।
इतः स्वबन्धुभिःसार्धं, बालकेलिकुतुहली । रममाणः प्रभुर्नेमिः, कृष्णायुधगृहं गतः ।।२३९६ ।। चक्र-शार्ङ्ग-गदा-खड्गा-द्यायुधानि विलोकयन् । विष्णोर्यशःकोशमिव, पाञ्चजन्यमुर्दक्षत ।।२३९७ ।। प्रभुः शङ्ख तमादित्सु-ौमिकेनैव मौच्यत ।
विना कृष्णममुं शङ्ख-मादातुं कोऽपि न प्रभुः ।।२३९८ ।। १. शङ्करसम्बधिनः १० टि० ।। * हि ९ ।। २. विगता शिखा येषां १० टि० ।। - इतः सार्द्धः श्लोक: ४ प्रतौ नास्ति ।। ३. मा इत्यभाणीद् यामिक: ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org