________________
श्रीदशवैकालिकसूत्रम्
२३७ बभाण शङ्करो बाणं, विना स्त्रीकार्यमन्यतः । त्वमजय्यो रणे भावी, श्रुत्वेत्याह स्म सोऽस्त्विति ।।२३७४ ।। अनन्यसमरूपत्वा-दुषा स्ववपुषाद्भुता । मनांसि हरते यूना-मास्तां दृष्टा श्रुतापि हि ।।२३७५ ।। श्रुतानुरागरक्तानां, भूयसामपि भूभृताम् । विशिष्टा अनुशिष्टास्तां, बाणमायान्ति याचितुम् ।।२३७६ ।। अरोचकी पुनर्बाणो, न दत्ते यस्य कस्यचित् । तस्या सर्वगुणयोग्यं, वरं वीक्षयते चरैः ।।२३७७।। कस्याप्युषा मुखाम्भोजा-दाकर्ण्य गुणमालिकाम् । अनिरुद्धस्य दोषौधै-रनिरुद्धस्य सर्वथा ।।२३७८ ।। . गुणमालां च तां तस्य, हृदि विन्यस्य निर्मलाम् । अचिन्तयत् परो नास्माद्, गुणवान् पुरुषः क्षितौ ।।२३७९।। युग्मम् ततः साद्भुतरूपाद्यै-निर्मलैरपि तद्गुणैः । चेलवञ्चौलमाँञ्जिष्ठा-रङ्गेणातीव रङ्गिता ।।२३८०।।
अविज्ञाप्यैव कस्यापि, चित्रलेखां निजां सखीम् । प्रेष्यानिरुद्धमानाय्य, तमपश्यद् यथाश्रुतम् ।।२३८१।। अनिरुद्धोऽप्युषां वीक्ष्य, निरुद्धस्तद्वपुर्गुणैः ।। गान्धर्वेण विवाहेन, पर्यणैषीत् तदैव ताम् ।।२३८२।। उषामादाय सोऽचालीद्, रुक्मिणीमिव केशवः । अवोचञ्चानिरुद्धोऽहं, हृत्वोषामेष योमि भोः ! ।।२३८३।। ततः क्रुद्धस्य बाणस्य, प्रसृतैस्त्वरितैर्बलैः । अनिरुद्धो निरुद्धोऽसौ, कुक्कुरैरिव शूकरः ।।२३८४ ।। पाठसिद्धां महाविद्या-मुषा पत्युर्ददौ तदा । सुचिरं तद्बलाद् बाण-मनिरुद्धोऽप्ययोधयत् ।।२३८५।। बद्धोऽथ नागपाशैः स, पाशकैरिव शारयः ।
प्रज्ञप्तिविद्यया चैतद्, विष्णुरज्ञाप्यत द्रुतम् ।।२३८६।। १. बाणः ।। २. विनिर्मुक्तस्य ।। * चो० २.६.८ ।। . ०म० २ ।। ३. गच्छामि ९ टि० ।। ४. पक्षिविशेषः १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org