SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २३६ . श्रीतिलकाचार्यविरचितटीकायुतम् आनीय कमलामेलां सागरं पर्यणाययन् । सिद्धसाध्यास्ततः सर्वे, खेलन्तः सन्ति तत्र ते ।।२३६२।। नभःसेनो विवोढुं तां, तद्गृहद्वारि जग्मिवान् । तदा कन्यामदृष्ट्वा तां, विलक्षस्तज्जनोऽभवत् ।।२३६३।। सर्वतस्तेऽथ पश्यन्तो, दृष्ट्वा तां खेचरान्तिके । ततो गत्वा हरेः पार्श्वे, तद्रावां ते प्रचक्रिरे ।।२३६४।। ... खेचरान्यायमाकर्ण्य, सर्वोघेणाययौ हरिः । युद्धेन विस्मयं नीत्वा, विष्णुं शॉम्बः स्वरूपभाक् ।।२३६५।। पतित्वा पादयोः सर्वं, वृत्तमाख्यद्यथातथम् । ददौ तां सागरस्यैव, हरिरन्यानबोधयत् ।।२३६६।। युग्मम् हर्तुं नालं भविष्णुस्तां, नभःसेनस्तदाद्यपि । . नित्यं सागरचन्द्रस्य, क्षुद्रश्छिद्राण्यवेक्षते ।।२३६७।। इतोऽस्ति रौक्मिणेयस्य, वैदर्भी नाम वल्लभा । ' अनिरुद्धाभिघानोऽस्या, नन्दनः प्राप्तयौवनः ।।२३६८।। पुरे शुभनिवासाख्ये, वैताढ्यगिरिशेखरे । महाप्राणस्तदा बाणः, समभूत् खेचरेश्वरः ।।२३६९।। . उषेति तस्य कन्यास्ति, निःसामान्या स्वरूपतः । विद्यामाराधयद् गौरी-माप्तुं वरमीप्सितम् ।।२३७० ।। सो व्याचष्टे स्म तो तुष्टा, तव प्रद्युम्नसूर्वरः । अनिरुद्धाभिघो भावी, रूपश्रीजितामरः ।।२३७१।। बाणेनाराधितो गौरी-विद्यायाः प्राणवल्लभः । शङ्करः प्रददावस्य, रणक्षोणावजय्यताम् ।।२३७२।। गौरी तें जल्पति स्मैवं, मा स्मैवं दा वरं वर । एवं ह्युषायामदत्तो, वरोऽसौ विघटिष्यते ।।२३७३।। * पर्या० १-३ ।। ॐ श० १-५ ।। 0 ०वा० ५-१० ।। १. गौरीविद्या ।। २. उषां ।। - तर्पि० ५ ।। ३. शङ्करम् ।। माऽस्मै एवं व० ६.८.९. ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy