SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् २३५ तत्रैव धनसेनस्य, नृपतेः कमलोपमा । दुहिता कमलामेला, शतपत्रकृतस्थितिः ।।२३४९ ।। सोग्रसेननृपापत्य-नभःसेनस्य कल्पिता । नारदस्तद्गृहायातो, निःसम्मानो ययौ क्रुधा ।।२३५० ।। सागरेण पुनर्गह-मागतो नारदः स्वयम् । सम्मान्यासनमासीनः, पृष्टश्चित्रं किमीक्षितम् ? ।।२३५१।। सोऽवदत् कमलामेला, दृष्टात्रैवातिचित्रकृत् । दत्ता कस्यापि ? सोऽपृच्छत्, तद्योगः स्यात् कथं च मे ? ।।२३५२।। ऋषि वेद्यीत्युक्त्वागात्, सागरस्तु पुनः पुनः । आसने शयनेऽपश्य-ल्लिखंस्तामेव चैं स्थितः ।।२३५३।। अथागात् कमलामेला-प्रासादे नारदो मुनिः । पृष्टस्तस्यापि सम्मान्या-श्चर्यं किञ्चिददृश्यत ? ।।२३५४ ।। ऊचे दृष्टमिहाश्चर्य-द्वयमत्यन्तमद्भुतम् । रूपं सागरचन्द्रेऽस्ति, नभःसेने कुरूपता ।।२३५५।। सागरे मूर्छिता साथ, नभःसेने व्यरज्यत । ऋषिराश्वास्य तामाख्यत्, सागरस्यापि तन्मनः ।।२३५६।। इष्टः सर्वकुमाराणां, स्वजनानां च सागरः । । ततस्तदुःखतस्तत्र, वाहेऽम्भांसीव तेऽमिलन् ।।२३५७ ।। शाम्बश्च सागरं वीक्ष्य, प्रलपन्तं ग्रहात्तवत् । स्थित्वास्य क्रीडया पश्चात्, पाणिभ्यां पिदधे दृशौ ।।२३५८ ।। सागरः स्माह कमला-मेले ! ज्ञातासि मुच्यताम् । शाम्बोऽवक् कमलामेला, नाहं तन्मेलकः पुनः ।।२३५९।। अथोचे सागरस्तं स्वां, प्रतिज्ञां तात! पूरय । दध्यौ शाम्बः स्ववाचैव, मयेदं किमुरीकृतम् ? ।।२३६० ।। प्रद्युम्नविद्यया तेऽथ, भूत्वा खेचररूपिणः । गत्वोद्याने च शाम्बाद्या, विवाहाह्नि सुरङ्गया ।।२३६१ ।। • चा० २.५-९; वा १० ।। ७ वष्टं महा० ६-१० ।। 0 ०ला १.१० ।। १. कमलां मेलयतीति ।। तां च ८ ।। श० १-३.५.७.१० ।। २. सुरङ्गामार्गेण ९ टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy