SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २३४ . श्रीतिलकाचार्यविरचितटीकायुतम् शाम्बादयश्च दुर्दान्ताः, सहस्राः षष्टिरेव च । वीरसेनादयो वीराः, सहस्रास्त्वेकविंशतिः ।।२३३६।। महासेनादिकानां तु, महासेनसमौजसाम् । तलवर्गप्रधानानां, षट्पञ्चाशत्सहस्त्रिकाः ।।२३३७ ।। अन्येऽप्यमात्यसार्थेश-श्रेष्ठिप्रभृतयो जनाः । सर्वेऽपीन्द्रमिवोपेन्द्र, प्रीतिमन्तः सिषेविरे ।।२३३८ ।। . नृपा मुकुटबद्धाश्च, सर्वेऽपि वनमालिनः । रत्नाधुपायनं चक्रु-दिव्ये द्वे द्वे च कन्यके ।।२३३९ ।। ताभ्यः पर्यणयत् कन्या-सहस्राः षोडशाच्युतः । सहस्राण्यष्ट रामोऽन्ये, कुमारा अपि चाष्ट ताः ।।२३४० ।। कृष्णोऽथ कुरुते राज्यं, न्यायं धर्मं च पोषयन् । शोषयंस्तद्विपक्षं च, सर्वलोकसुखाकरः ।।२३४१।। यदवोऽथ महानन्द-मुदिताः पूर्णसम्पदः । । क्रीडोद्यानादिषु स्वैरं, खेलन्ति ललनासखाः ।।२३४२।। यदूस्तान् क्रीडतः प्रेक्ष्य, समुद्रविजयो नृपः । जननी च शिवादेवी, प्रेम्णा श्रीनेमिचतुः ।।२३४३।। द्रक्ष्यामस्ते कदा वत्स!, करग्रहमहोत्सवम् । सवधूकं च खेलन्तं, रतियुक्तमिव स्मरम् ।।२३४४ ।। अभोगफलकर्मेति, पितरौ स्वाम्यवोचत । भविष्यत्युनुरूपा स्त्री, यदोद्वक्ष्यामि तां तदा ।।२३४५।। इतो यशोमतीजीवो-ऽपराजितविमानतः । उग्रसेनस्य कान्ताया, धारिण्या कुक्षिमागमत् ।।२३४६।। धारिणी समयेऽसूत, नाम्ना राजीमती सुताम् । रूपलावण्यसौभाग्यै-वर्धते स्म क्रमेण सा ।।२३४७।। इतश्च बलदेवस्य, नप्ता निषधनन्दनः । नाम्ना सागरचन्द्रोऽभूद्, रूपसौभाग्यभाग्यभूः ।।२३४८ ।। ९. कार्तिकेय० ।। * स्रान् ६-१० ।। . ०मब्रवीत् २.६-९ ।। 0 तात २.६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy