SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २३३ श्रीदशवैकालिकसूत्रम् वीतशोकास्ततो लोका, निवृत्ताशेषविग्रहाः । जयवादमदापूर्णा, द्विगुणीभूतविग्रहाः ।।२३२४ ।। कूर्दन्ते स्म तदानन्दं, यदवः सजनार्दनाः । तत्रानन्दपुरं स्थाने, सिनपल्ल्यास्ततो व्यधुः ।।२३२५ ।। अथ प्रीतो हरिः सर्वे-वृतः खेचरभूचरैः । मासैः षड्भिः विजित्यार्द्ध-भरतं मगधेष्वगात् ।।२३२६।। तत्रैकयोजनायाम-विस्तारोत्सेधशालिनीम् । भरतार्द्धनिवासाभि-देवताभिरधिष्ठिताम् ।।२३२७ ।। कृष्णः कोटिशिलां वज्र-मयीमिव दुरुद्धराम् । चतुरङ्गुलमुर्वीतो-ऽभ्युद्दधे वामबाहुना ।।२३२८ ।। युग्मम् विष्णुराद्यो भुजाग्रे तां, दधौ मूर्ध्नि द्वितीयकः । कण्ठे तृतीयस्तुर्यस्तु, हदि नाभौ च पञ्चमः ।।२३२९।। षष्ठः क़टयां घडधिक-स्तूर्वोराजानु चाष्टमः । चतुरङ्गुलमन्त्योऽव-सर्पिण्यां ते पतद्वलाः ।।२३३० ।। युग्मम् अथ द्वारवतीपुर्यां, जगाम पुरुषोत्तमः । महत्या प्राविशद् भूत्या, पौरनेत्रकृतोत्सवः ।।२३३१ ।। राज्ञां मुकुटबद्धानां, सहस्रैः षोडशप्रमैः । अभिषिक्तोऽर्द्धचक्रित्व-पदे देवैश्च सेवकैः ।।२३३२ ।। पाण्डवान् कुरुषु स्वस्व-स्थानेष्वन्यान् नराधिपान् । भूचरान् खेचरांश्चाथ, कैटभारिर्विसृष्टवान् ।।२३३३।। दशार्हा दशगौरव्याः, समुद्रविजयादयः । बलदेवप्रभृतयो, महावीराश्च पञ्च तु ।।२३३४ ।। सहस्राः षोडशात्युग्रा, उग्रसेनादयो नृपाः । प्रद्युम्नाद्या कुंमाराश्च, कोट्यस्तिस्रोऽर्द्धसंयुताः ।।२३३५ ।। ल्या० १-५ ।। १. वामहस्तमूर्छाकृत्य हस्ताग्रे ।। २. सप्तमः ।। " स्व० ६-१० ।। 0 अयं श्लोकः ९ प्रतो नास्ति ।। ३. कुरुदेशेषु १० टि० ।। ४. कुत्सितो मारो यस्मात् १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy