________________
२३२ . श्रीतिलकाचार्यविरचितटीकायुतम्
अगृहृत्युग्रसेने च, राज्यं तत्तनुजजन्मनः । ददौ धराभिधानस्य, मथुरायाँ नरायणः ।।२३११।। श्रीनेमिना विसृष्टोऽथ, मातलिः स्वर्गमीयिवान् । जयलक्ष्मीकृतानन्दः, कृष्णः स्वं शिबिरं ययौ ।।२३१२ ।। परेऽपि प्राप्य कृष्णस्या-देशं देशमिवात्मनः । प्रययुः शिबिरं स्वं स्वं, भूभुजो भुजशालिनः ।।२३१३।। . धूसराङ्गः पतङ्गोऽपि, रणरेणुभरैस्तदा । जगाम पश्चिमाम्भोधौ, स्नानं कर्तुमना इव ।।२३१४ ।।
समुद्रविजयस्तत्र, यदुवंशाग्रमौक्तिकम् । तस्थौ प्रतीक्षमाणः सन्, वसुदेवसमागमम् ।।२३१५ ।। अथोदियाय बालार्कः, सुकुमारकरोत्करः । दृष्टुं यदुजयानन्द-महोत्सवमिवोत्सुकः ।।२३१६।। अहर्मुखे द्वितीयेऽह्नि, समुद्रविजयान्वितम् । वर्धापकनरः कश्चिद्, वासुदेवमवीवृधत् ।।२३१७ ।। समेष्यत्यघुना देव!, वसुदेवः पिता तव । युक्त: प्रद्युम्नशाम्बाभ्यां, निर्जिताशेषखेचरः ।।२३१८ ।। इति वर्धापकेनोक्त-मात्रेऽप्यागत एव सः । अथोदितपरिवारो, यदुनेत्राम्बुजार्यमा ।।२३१९ ।। तत्र विद्याधराः कृष्णं, स्वस्वोपायनपूर्वकम् । प्रणमति स्म साष्टाङ्गं, देवतामिव भक्तित: ।।२३२०।। अथो यदुकुले तत्र, सर्वस्मिन् मिलिते सति । हरिwधाज्जयसेना-दिकानामौर्ध्वदेहिकम् ।।२३२१ ।। जरासन्धादिकानां तु, सहदेवस्तदङ्गजः । अपरेऽपि च राजन्या, यथोक्तं विदधुर्विधिम् ।।२३२२ ।। संहारं सकुलस्यापि, पितुः पत्युश्च वीक्ष्य सा ।
निजां जीवयशाः सन्धां, प्रविश्याग्नावपूरयत् ।।२३२३।। * अयं श्लोक: ९ प्रतौ नास्ति ।। . ०यां १.३.४.१० ।। 0 ना० ८ ।। १. सूर्य: १० टि० ।। * ०श० १-५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org