SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् २३१ तञ्चक्रं मुञ्च मुञ्च त्वं, मदीयं सर्वदाप्यदः । अधुनैवानुषक्तस्य, न तवोक्तं करिष्यति ।।२२९९ ।। ततः कृष्णेन तन् मुक्तं, ज्वालाजालजटालितम् । चक्रं क्रेकचवन्निन्ये, जरासन्धं कबन्धताम् ।।२३०० ।। तदात्मा नरकं तुर्य, कर्मसंवर्मितो ययौ । अभूत् कृष्णस्तु कृष्णोऽपि, जयोज्ज्वलमुखस्तदा ।।२३०१।। अथावरुद्धान् श्रीनेमि-र्मुमुचे रिपुभूपतीन् । प्रभुं प्राणंसिषुस्तेऽपि, मुकुटीकृतपाणयः ।।२३०२ ।। ऊचुस्त्रिलोकीजेतुस्ते, को नामास्मज्जये जयः ? । सिंहः कुञ्जरनिर्जेता, किं स्यान् मृगजये जयी ? ।।२३०३।। विष्णुरेकोऽपि जिष्णु: स्यात्, प्रतिविष्णोर्महाबलः । किं तु यस्य सहायस्त्वं, बन्धुश्च स किमुच्यते ? ।।२३०४ ।। अज्ञास्याम वयं पूर्वं, जरासन्धश्च यद्यदः । नाकरिष्यामहीदं तत्, परं नाभावि भावि यत् ।।२३०५ ।। अत्र त्राता त्वमेवासी-रणे सर्वात्मनापि नः । हरेरप्यधुना स्वामिन् !, त्रायस्वास्मान् मृगानिव ।।२३०६ ।। श्रीनेमिरथ तैः सार्धं, भूपैरुपययौ हरिम् । हरिः सम्मुखमभ्येत्य, परिरेभे प्रमोदभाक् ।।२३०७ ।। हरिः श्रीनेमिवाचा तान्, सर्वानन्वग्रहीनृपान् । समुद्रविजयादेशात्, कृष्णस्तत्र जिताहवः ।।२३०८ ।। सहदेवं जरासन्ध-सूनुं राजगृहे पुरे । जयस्तम्भमिवात्मीयं, स्थापयामास तत्पदे ।।२३०९।। महानेमिं सौर्यपुरे, सामुद्रविजयि न्यधात् । हिरण्यनाभजं रुक्म-नाभं साकेतपत्तने ।।२३१०।। १. लग्नस्य ।। २. करवत इति भाषा० ।। * ०क० ६-१० ।। . ०ष्णु १ ।। 0 सिष्म १.३-७.९.१० ।। * सोऽपि ६-१० ।। २ ०यम् २.६-९ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy