________________
श्रीदशवैकालिकसूत्रम् सेनायाः प्रेक्ष्य तोन्नाग-पाशास्त्रटिति चुच्छुटुः । सर्वज्ञवचनात् कर्म-बन्धा इव शुभात्मनाम् ।।२२७४ ।। अच्युतोऽथ मुमोचास्त्रं, तामसं तेन तत्क्षणात् । अन्धकूप इव क्षिप्तं, शत्रुसैन्यं तदाभवत् ।।२२७५ ।। अपश्यंस्तज्जनस्तत्र, तमस्यन्ध इवाभवत् । तदात्मात्मोपरिर्जाता, शत्रुसैन्येऽखिलेऽपि हि ।।२२७६।। अजानाने परं स्वं वा, तिमिरध्वस्तचक्षुषि । मिथः स्वैरेव युध्यन्ते, स्मान्धमुग्धिकया भटाः ।।२२७७।। असमञ्जसमालोक्य, स्वबले मगधाधिपः । मुमोच भानवीयात्रं, भानुभिर्भरितं नभः ।।२२७८ ।। रूपैरिव प्रतापस्य, तपद्भिस्तैर्निजे बले । तमस्तोमःशमं नीत-स्तापश्चक्रेद्विषद्वले ।।२२७९ ।। तापाक्रन्तं बलं विष्णो-(ष्टक्षिप्तमिवाखिलम् । रतिं न लभते क्वापि, जातमत्यन्तमाकुलम् ।।२२८० ।। राहवीयायुधं युद्धे, सन्दधे धेरणीधरः । चेलुर्विधुन्तुदा व्योम-न्यरातीनामरुन्तुदाः ।।२२८१।। स्वर्भाणुभ्योऽथ भीतैस्तै-नश्यद्भिश्चित्रभानुभिः । कातरैरिव नो तत्र, क्षणमात्रमपि स्थितम् ।।२२८२।। अनाप्तभानवस्तत्र, क्षुधिता इव राहवः । अमित्रवक्रचन्द्राणां, ग्रसनाय डुढौकिरे ।।२२८३।। जरासन्धोऽथ चक्रेण, राहुचक्रमताडयत् । __ अथ तञ्चक्रमादाय, चक्री केशवमब्रवीत् ।।२२८४ ।। अनाण्यत्रैर्निराचक्रे, भवान् भूयस्तराण्यपि । इदं च चक्रमागच्छ-दमोघं वज्रिवज्रवत् ।।२२८५।। कथं करिष्यसि ? ब्रूहि, कृष्णोऽवक् मुञ्च सत्वरम् ।
अनेनाऽहं करिष्ये यत्, तद् द्रक्ष्यत्यचिराद् भवान् ।।२२८६।। १. गरुडान् ।। * ०० १ ।। २. विष्णुः १० टि० ।। ३. मर्मणि दुःखकारकाः ।। ४. सूर्यः १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org