________________
२२८ . श्रीतिलकाचार्यविरचितटीकायुतम्
पूर्वापराविवाम्भोधी, कल्पान्तक्षुभितावुभौ । अयुध्येतां महाप्राणी, वीचीभिरिव हेतिभिः ।।२२६२।। मानवीयैः प्रहरणै-विष्णुं विज्ञाय दुर्जयम् । अर्धचक्रीषुमाग्नेयं, दिव्यं धनुषि सन्दधे ।।२२६३।। ततः प्रज्वलतो वढे-धूमो ध्यामलयन्नभः । रणेक्षकोऽनिमेषाक्ष-स्त्रीणां दृक्षु व्यथां व्यधात् ।।२२६४।।. . सैन्यं च दैन्यमानीय-मानमालोक्य वह्निना । दानवारिर्महावारि-वाहास्त्रममुचत् तदा ।।२२६५ ।। स्वसैन्यकृतसन्तापं, शमयामासुराशु तम् । हव्यवाहं वारिवाहाः, प्रतापमिव चक्रिणः ।।२२६६।। धृताखण्डलकोदण्डाः, ववृषुर्जलदास्तदा । धारा नारचधोरण्या, द्विषां बलमकीलयन् ।।२२६७।। वारिवाहभवैर्वोरि-वाहैः स्वमखिलं बलम् । वह्यमानं तदालोक्य, वातास्त्रं मागधोऽमुचत् ।।२२६८ ।। मेघडम्बरवद् विष्णो-मैघडम्बरमम्बरात् ।। हत्वा स स्वप्रतापार्क-तेजसातापयद् द्विषः ।।२२६९।। वातेन व्यध्यमानेषु, सेनाङ्गेषु हरिभिषक् । वाताशनास्त्रं भैषज्यं, प्रयुज्य तमपाहरत् ।।२२७० ।। वाताशनाः पीतवाताः, नागपाशैद्विषां बलम् । बबन्धुः कान्तिभिः स्वाभिः, प्रतापार्क च तेऽप्यधुः ।।२२७१ । । नागपाशैः कालपाशै-रिव बद्धां निजां चमूम् । तन्मोचनाय मुमुचे, चक्री गारुडमायुधम् ।।२२७२।। स्वर्णकायैर्महाकायै-ॉम व्याप्तं तदाखिलम् ।
सर्वतो बद्धसौवर्ण-पट्टोल्लोचमिवाद्युतत् ।।२२७३ ।। १. अझैः १० टि० ।। २. तदा [ इति शेषः] ९ टि०।। ३. देवस्रीणाम् ९ टि० ।। ४. कृष्णः ।। . प्रवर्षन्तस्तदाम्बुदाः ६-१० ।। ५. जलसमूहै: ९ टि० ।। ६. मेघास्त्रम् ।। ७. पीडितानाम् ३ टि० ।। ८. आच्छादितवन्तः ।। ९. गरुडैः ।। १०. चन्दरवो इति भाषा० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org