________________
श्रीदशवैकालिकसूत्रम्
२२७ बलोऽपि प्रबलीभूय, तदानीं लोङ्गलायुधः । ईतिप्रायान् रणक्षेत्रे, जघान रिपुसैनिकान् ।।२२५० ।।
तत्कालहतपुत्रौघ-प्रदिप्तक्रोधपावकः । ज्वालोपमानगीः कृष्ण-मूचे चक्री दहन्निव ।।२२५१।। अरे! ते गोपकः कोपः, कुतो वा वीरमानिता ? । यदेवं सम्मुखो मे भूः, सिंहस्येव कुरङ्गकः ।।२२५२ ।। कंसः प्रध्वंसितस्ताव-च्छलेन न बलेन तु । केश्याद्याः पशवो यत्तु, हताः किं तत्र पौरुषम् ? ।।२२५३।। कालतश्चकितानां तु, त्वरया नश्यतां सताम् । पृथिव्यन्तमुपेतानां, जीवितं जठरेऽविशत् ।।२२५४।। काल: स्वपौरुषेणैब, मृत्युकोटिमुपागमत् । हन्तुमेवाधुना मे त्वं, देवेनास्युपढौकिँतः ।।२२५५ ।। ब्रूहि कुक्षौ व कंसोऽस्ति ?, तां विदार्याकृषामि तम् । प्रतिज्ञां पूरयाम्यद्य, तां जीवयशसश्चिरात् ।।२२५६।। स्मित्वोवाच हरिस्तं ते, सत्या गीगोपे इत्यसौ । यास्याम्यहमिदानीं गों, त्वामपास्य जरद्गवम् ।।२२५७।। कुक्षौ वामेऽस्ति मे कंस-स्त्वं विशैतर्हि दक्षिणे । पूरितोभयकुक्षिः सन्, तृप्तः स्वैरं यथास्म्यहम् ।।२२५८ ।। पूरिष्यते प्रतिज्ञां स्वां, तव जीवयशाः सुता ।
स्वमातृभिः समं वह्नि-प्रवेशेन सपद्यपि ।।२२५९।। - अथातिक्रोधबन्धेन; जरासन्धेन केशवः ।
परीतः परितो बाणैः, पञ्जरक्षिप्तपक्षिवत् ।। २२६० ।। निःससार महासार-स्तच्छित्त्वा बाणपञ्जरम् ।
कृष्णः कृष्णं मुखं चक्रे, तदानीमर्धचक्रिणः ।।२२६१ ।। 1. हलायुधः ।। २. अतिवृष्ट्यादिसप्तेतिप्रायान् १० टि० ।। * हृदये ६-१० ।। ३. श्रेष्ठताम् ।। - इतः सार्ध: लोकः ६ प्रतौ नास्ति ।। ४. पृथ्वीपाल इत्यर्थो व्यङ्ग्यः ।। ५. पृथ्वीम् ।। ० ०शेत् २,० शो ५, ०शे १० ।। ६. देहेन १० टि० ।। ७. परिगतः ।। ष्ण० ५-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org