SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ N २२६ श्रीतिलकाचार्यविरचितटीकायुतम् हतो विष्णुरनेनेति, शङ्कां चित्तेऽप्यमूमहो । माकार्षीत् कोऽपि येनैषा, शाश्वती जगति स्थितिः ।।२२३८ । । नियन्ते विष्णुहस्तेन, सर्वेऽपि प्रतिविष्णवः । यदूनाश्वासयामास, भगवान् कथयन्निति ।।२२३९ ।। त्रिभिर्विशेषकम् यदून् पुनरभाषिष्ट, मातलिः शक्रसारथिः । एकोऽपि भगवान्नेमि-र्जगद्रक्षाक्षयक्षमः ।।२२४०।। . . तन्मा भैषुर्भवन्तोऽत्र, स्वैरं सन्त्वकुतोभयाः । किं सिंहरक्षिते कक्षे, गजेभ्यो जायते भयम् ? ।।२२४१।। सिंहेभ्यः शेरभाणां किं, भयं भवति जातुचित् ? । शार्दूलानां वृकेभ्यो वा ?, भेकेभ्यो वापि भोगिनाम् ।।२२४२।। अाखण्डलकोदण्ड-माकृष्य नवमेघवत् । स्वाम्यवर्षन् च्छरासारै-स्त्रासयन् सर्वतोऽप्यरीन् ।।२२४३।। किरीटफैलकच्छत्र-सारिधन्वरथध्वजान् । ' फलानीवाच्छिदन् स्वामि-पत्रिणः शत्रुकानने ।।२२४४ ।। प्रतिप्रहारमाधातुं, नालं कोऽप्यभवत् प्रभोः । किं मेरुः फेरुणा शक्यः, कदाप्याक्रमितुं क्वचित् ? ।।२२४५।। अभ्यागतानां शत्रूणां, लक्षसङ्घयमहीभृताम् । यदुन्निहन्तुकामानां, पुरःस्थानां तदा प्रभुः ।।२२४६।। ऐन्द्रे धनुषि सन्धाय, मोहनं सायकं व्यधात् । चतुरङ्गां चमूं तेषां, चतुरङ्गचमूमिव ।।२२४७ ।। युग्मम् स्वाम्यवष्ठम्भमासाद्य, सद्यो यदुनृपास्तदा । सिंहनादान् विमुञ्चन्तो, नवीभूता इवोत्थिताः ।।२२४८।। प्रभुप्रतापोद्योतेन, रणरेणुतमस्यपि । अन्विष्यान्विष्य कौरव्याः, शेषाः पाण्डुसुतैर्हताः ।।२२४९।। * ०क्रम० ६-९ ।। १. वने ९ टि०, शुष्कवने लतायां वा १० टि० ।। २. अष्टापदानाम् ।। ३. व्याघ्राणाम् १० टि० ।। ४. शृगालेभ्यः ।। ५. शक्रधनुः ।। ६. ढाल इति भाषा० ।। ७. पाशक १० टि० ।। ८. बाणा: ।। ९. शृगालेन ।। १०. सम्मुखागतानाम् ९ टि० ।। . रस्थ २.४.६. ।। - भोः २ ।। ११. बाणम् समधादिषुम् २ टि० ।। १२. रक्त-हरित-पीत-श्यामलरूपाणि चत्वारि क्रीडासाधनानि १० टि० ।। * ०णे २ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy