________________
श्रीदशवैकालिकसूत्रम्
२२५ श्रुत्वात्मजवधं क्रुद्धो, जरासन्धो निजनिवान् । रेणक्रतुमुखे राम-सुतान् दश पशूनिव ।।२२२६।। रामात्मजान हतान् वीक्ष्य, पलायतः हरेश्चमूः । निघ्ननिवोन्दुरानोतु-र्जरासन्धोऽन्वियाय ताम् ।।२२२७ ।। शिशुपालस्तदंग्रेगाः, सहासं कृष्णमभ्यधात् । न हीदं गोकुलं कृष्ण!, क्षत्रियाणामयं रणः ।।२२२८ ।। कृष्णस्तमाह याहि त्वं, पश्चादपि पलायसे । रौक्मिणेऽपि रणे दृष्टा, तव यादृश्यवस्थितिः ।।२२२९ । । नाराचेनेव लोहेन, विद्धः कृष्णगिरा तया । कृष्णं प्रत्यथ सोऽमुञ्चत्, बाणान् प्राणापहारिणः ।।२२३० ।। हरिस्तस्य कृपाणं च, किरीटं च शिरस्तथा । पातयामास वृक्षाग्रात्, समग्रं तत्फलादिवत् ।।२२३१।। अचूरयज्जरासन्ध-सुताष्टाविंशतिं तदा । मुशली मुशलेनाशु, स्वपुत्रवधवैरतः ।।२२३२।। जरासन्धेन चापत्य-विपत्तिकुपितात्मना । गदया प्रहतो रक्तं, वमन् रामोऽपतद् भुवि ।।२२३३।। . प्रेक्ष्य भ्रातूंपराभूति-मुद्भवक्रोधदुर्द्धरः । अहन् विष्णुर्जरासन्ध-सुतानेकोनसप्ततिम् ।।२२३४ ।। अथातिक्रोधरक्ताक्षो, रक्ताक्ष इव वार्भगः । अनात्मज्ञो जरासन्धः, श्रीपतिं प्रत्यढौकत ।।२२३५ ।। इहान्तरे जरासन्धे, शरवर्षं वितन्वति । तदा हतो हरिरिति, वार्ता सर्वत्रगाभवत् ।।२२३६।।
अत्याकुलं यदुकुलं, श्रीमान्नेमिर्विलोक्य तत् ।
समस्तनिजसैन्यान्तः, प्रभुः सञ्चारयन् रथम् ।।२२३७।। १. युद्धसङ्कल्पमुखे १० टि० ।। २. बिडालो मूषकान् इव ।। * ०वोद्भुतां भानु० ६-१० ।। ३. जरासन्धाग्रगामी । परिणे ६-९ ।। ४. अस्त्रेण १० टि० ।। 0 ०थ ५ ।। प्रा० १ ।। ०तुः ६-१० ।। ५. महिषः ।। 1. आरण्यकः ३ टि०।। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org