________________
२२२ श्रीतिलकाचार्यविरचितटीकायुतम्
अथ द्वावपि तौ वीरौ, खड्गखेटकपाणिको । रथादुत्तीर्य दोर्वीर्य-तिरस्कृतसुरासुरौ ।।२१९१।। खेलूरिकायामिव तौ, खुरली तत्र चक्रतुः । देवदानवमानां, जनयन्तौ कुतूहलम् ।।२१९२।। युग्मम् अनाधृष्टिरथाकृष्टे-नासिना खड्गवेदवित् । तनूं हिरण्यनाभस्य, रम्भाच्छेदं तदाच्छिदत् ।।२१९३।। अत्रान्तरे जरासन्ध-सेना सेनापतौ मृते । तत्स्पर्शात् पश्चिमाम्भोधौ, सूर्यः स्नातुमिवागमत् ।।२१९४ ।। तदानीं च जरासन्ध-सेना सा मृतभर्तृका । सन्ध्यरागं तटेऽम्भोधे-र्घट्टांशुकमिवामुचत् ।।२१९५ ।। युग्मम् अथ तौ द्वावपि व्यूहौ, स्थानं निजनिजं गतौ । विज्ञायाँदिवसमिव, समरारम्भमौज्झताम् ।।२१९६ ।। . व्यूहयोरुभयो वीर-समूहः समरोत्सुकः । त्रियामामपि कष्टेन, शतयामामिवानयत् ।।२१९७ ।। सौवर्णमर्णवात् कुम्भ-मिवादायार्कमाादिक् । प्रगेऽभ्येत्यमृतं युध्य-मानान् पाययितुं भटान् ।।२१९८ ।। __ अथोत्थिताः प्रगे सर्वेप्युभयोरपि सैन्ययोः । पर्जन्या इव गर्जन्तः, सुभटाः स्वजयाशया ।।२१९९।। शिशुपालं जरासन्धः, कृत्वा सेनापतिं नवम् । . क्रोधान्थैलः करालाक्षः, प्रचचाल द्विषं प्रति ।।२२०० ।।' चक्रव्यूहं दृढीकृत्य, सर्वोघेणापि चक्रभृत् ।
युगपत् पञ्चशब्देषु, वाद्यमानेषु वादकैः ।।२२०१।। १. शस्त्रशिक्षाभूमौ ।। २. खुरली तु श्रमो योग्याभ्यासस्तद्भः खलूरिका (अभि० ७८८) २ टि०, शराभ्यासम् १० टि० ।। ३. कदली० ।। ४. यथा मृतभर्तृका घट्टवत्रं त्यजति तथा स्वामिनि सूर्य गते सति सन्ध्या समुद्रतटे घट्टप्रभारूपं रक्तत्वं, मृतसेनानीका जरासन्धसेना च समुद्रतटे सन्ध्यारागसदृशं चेष्टारूपवस्त्रमत्यजत् ।। ५. विधवा सती २.६-१० ।। ६. पक्षे चेष्टा प्रभा १० टि० ।। * ०य २ ।। ७. पूर्वदिशा १० टि० ।। . ०दन्धः ६
१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org