________________
श्रीदशवैकालिकसूत्रम्
२२१ शिवात्मजेन शार्दूल:, किं कदाप्यभिभूयते । इत्युदित्वा क्षुरप्रेण, क्षिप्रं तमपि सोऽवधीत् ।।२१७९।। बन्धुद्वयवधक्रुद्धो-ऽनाधृष्टिः सहसोत्थितः । भीमार्जुनादिभूपालै-विकरालैस्तदा युतः ।।२१८०।। सार्धं हिरण्यनाभेना-नाधृष्टिः क्रोधदुर्धरः । वन्येभेनेव वन्येभः, ससंरम्भमयुध्यत ।।२१८१।। परस्परमथो योद्ध-मपरेऽपि डुढौकिरे । गोत्रवैरादिव क्रुद्धाः, स्वस्वस्वामिजयेच्छवः ।।२१८२।। गुरुणा मुद्गरेणाथ, पदचार्यपि कश्चन । . रथं बभञ्ज कस्यापि, भ्रष्टपर्पटलीलया ।।२१८३।। शस्त्रं शस्त्रेण भिदानौ, दृष्ट्वा कावपि भूपती । कमहं वर्द्धयामीति, संशयोऽभूजयश्रियः ।।२१८४ ।। कश्चित् पदप्रहारेण, पदातिः पृथिवीं भटः । कम्पयामास देस्यूनां, वपुश्चेतश्च कम्पयन् ।।२१८५।। केनापि कस्यचिञ्चक्रे, निर्जीवं धन्व धन्विनः । निर्जीवेनापि निर्जीवं, तेनाहत्य स तं व्यधात् ।।२१८६।। कश्चिञ्च लोहदण्डेन, युध्यमानो रणे बभौ । ताडयन् दण्डरत्नेन, सेनानीरिव चक्रिणः ।।२१८७ ।। रणेऽत्र सत्यकी राजा, कृष्णपक्षस्थितोऽपि हि । शुक्लपक्षोद्गत इव, कलाप्रकर्षमाप्तवान् ।।२१८८ ।। युध्यमानो रणे तत्र, से भूरिश्रवसं नृपम् । उक्षवद योक्त्रबन्धेन, निजग्राह गलग्रहात्. ।।२१८९।।.. इतो हिरण्यनाभश्चा-नाधृष्टिश्च परस्परम् ।
मूर्तिमताविव क्रोध-मानौ विदधतुर्युधम् ।।२१९० ।। १. शृगालेन ।। २. पापड इति भाषा० ।। ३. रिपूणाम् १० टि० ।। ४. कवचम् ३ टि० ।। ५. सत्यकिः ।। ६. जोतरु इति भाषा० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org