________________
२२० . श्रीतिलकाचार्यविरचितटीकायुतम्
कौचिद् द्विपौ स्वशुण्डाभ्यां, विहितान्योन्यबन्धनौ । मल्लयुद्धकृतारम्भौ, मल्लाविव विरेजतुः ।।२१६७ ।। भग्नदन्तं रणे वीक्ष्य, करिणं करिणीधिया । कश्चित् करी समर्थोऽपि, न तेन सह युध्यते ।।२१६८ ।। अथ दुर्योधनस्तत्र, पाण्डवानां सुयोधनः । हन्तुं दुर्धारऽधाविष्ट, भीमं भेक इवोरगम् ।।२१६९।। . गदया निर्दयं भीमो, मूर्तं वैरमिव क्षणात् । पिष्ट्वा तं चूर्णसाच्चक्रे, सरथ्यरथसारथिम् ।।२१७० ।।
हते दुर्योधने वीरे, निर्वीरा तस्य सा चमूः । हिरण्यनाभं सेनान्यं, शरण्यं शरणं श्रिता ।।२१७१ ।। अनाधृष्टिं च शिश्राय, यदुपाण्डववाहिनी । . करेणव इवाशेषा, यूथाधिपमतङ्गजम् ।।२१७२।। हिरण्यनाभः सेनानी-रऽनाधृष्टिचमूपतेः । माहिषेणेव केदारं, जग्राहे निखिलं बलम् ।।२१७३।। अथोत्तस्थौ जयाकाङ्क्षी, जयसेनः समुद्रजः । हिरण्यनाभं निर्जेतुं, विक्कवद् युवकुञ्जरम् ।।२१७४।। हिरण्यनाभस्तं स्माह, क्षीरकण्डकुमारकम् । हुडुयुद्धे त्वमायासीः, किं जम्बुक इवान्तरे ? ।।२१७५ ।। इत्युक्त्वा तेन चूंडेव, तस्य ध्वस्तो रथध्वजः । जयसेनोऽच्छिदत् तस्य, ध्वजवर्माश्वसारथीन् ।।२१७६।। क्रुद्धोऽथ जयसेनं स, जघान दशभिः शरैः । करजैरऽतितीक्ष्णाग्रैः, कुरङ्गमिव चित्रकः ।।२१७७।। अथागच्छन् महीसेनो, जयसेनस्य सोदरः ।
खगखेटकभृत्पाणि-हिरण्येनाभ्यधीयत ।।२१७८ ।। १. ऊर्णायु २ टि०, लोहकीलक १० टि० ।। * हुड० ५-१० ।। २. छिद्रे १० टि० ।। • तब्यूडामिवास्तस्तद्रथ० २.६-१० ।। 0 ० ६-१० ।। * रिव १.३-५ ।। ३. व्याघ्रः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org