SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् कर्णे कौरवसैन्यस्य, जीवभूते हते सति । सजीवमपि निर्जीवं, स्वं मन्यन्ते स्म कौरवाः ।। २१५५ ।। मयि जीवति कुर्वन्ति, ताण्डवं पाण्डवाः कथम् ? । इति दुर्योधनः क्रुद्ध-श्चतुरङ्गचमूवृतः ।। २१५६।। भीममाक्रमितुं तत्र, रणक्षेत्रमुपागतः । खड्गदात्रेण तत्सैन्य-शिरोधान्यलुलूषया ।। २१५७ ।। युग्मम् भीमोऽथ मुमुचे सिंह- नादं तत्प्रतिनादतः । पश्यन्तः सर्वतः सिंहान्, गजाः केचिद् भयान् मृता ।। २१५८ ।। नश्यन्त करिणः केऽपि, पञ्चाननभयाकुलाः । दत्तामाघोरणैः कुम्भे, न सॄणीमप्यजीगणन् ।।२१५९।। केचिद बधिरिताः सिंहनादाघातेन कर्णयोः । तत्रैववस्थिता गन्ध-सिन्धुरा घूर्णिता इव ।।२१६० ।। तत्कालोत्पन्नदुर्मृत्यु-भयसन्तप्तवर्ष्मणाम् । कैषाञ्चित् करिणां तत्र, शुष्यन्ति स्म मदापगाः ।।२१६१।। तदाभ्यर्णे निजभ्रातुः, प्रेधनांशजिघृक्षया । स्वहास्तिककृताराति-तुमुलो नकुलोऽभ्यगात् ।। २१६२ ।। तदा पाण्डवकौरव्य - सैन्ये कोलाहलोऽभवत् । रणोत्सवे कृतान्तस्य, निमन्त्रणनिदानवत् ।।२१६३।। दन्तिदन्ताभिघातोत्थैः, स्फुलिङ्गैर्गगनाग्रगैः । . आग्नेयशस्त्रसम्पात, इव तत्र तदा बभौ ।।२१६४ ।। मिथः शुण्डाप्रतिध्वस्ता - रोहौ कौचिद् गजौ रणे । भ्रमतुः स्वेच्छया विन्ध्य-भूमाविव निरर्गलौ ।।२१६५ ।। एकेन दन्तिना वैरि-दन्ती दन्ताहतो मृतः । Jain Education International उत्पाटितश्च दन्ताभ्यां, दोलारूढ इवाबभौ ।।२१६६।। १. हस्तिपैः ।। २. अङ्कुशम् ।। * व्व तस्थिरे १.२.६-१० ।। ३. भ्रान्ताः ।। ४. शरीराणाम् ९ टि० ।। शुष्यन्ति स्म मदनदीः केषाञ्चित् करिणां तदा २.६-१० ।। ५. युद्धांश १० टि० ।। ६. अग्निकणैः ।। शुण्डपोत्तारितत्यक्ता० २.६-१० ।। २१९ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy