________________
२१८. श्रीतिलकाचार्यविरचितटीकायुतम्
अथ वीक्ष्यार्जुनं रौद्र, कल्पान्त इव भैरवम् । दुर्योधनो डुढौकेऽस्य, पुनर्भूभृद्भिरन्वितः ।।२१४४।। अङ्गशेषः कृतः प्रेष्य, मार्गणानर्जुनेन सः । निःस्वो दुर्योधनोऽथागात्, स्वार्थाय शकुने रथम् ।।२१४५।। तृणायापि न मन्यन्ते, येऽपरान् वीरमानिनः । भूपांस्तानपि सोऽभाङ्क्षीत्, कुरङ्गानिव केशरी ।।२१४६।। शल्यं शल्यमिवाकृष्य, सैन्याधुधि युधिष्ठिरः । शैलं वज्रीव वज्रेण, शक्त्या चूर्णितवान् जवात् ।।२१४७।। . निहत्य गदया भीमो, दुःशासनमथ क्रुधा । उरो न्यदारयत् तस्य, पेण्डुपुत्रजयोन्नतम् ।।२१४८।। प्रेणुनः सहदेवेन, सङ्ग्रामाखेटकक्षितौ । .. शेकुनेः कूजतोऽप्युच्चै-निस्त्रिंशः शीर्षमच्छिदत् ।।२१४९।। सारं कौरवसेनाया, अक्ष्णः कालमिवेषुभिः । , अर्जुनः शून्यनामा), निनायास्तं जयद्रथम् ।।२१५० ।। कर्णः किरीटिनं हन्तु-माकाकृष्टकार्मुकः । अभ्यधाविष्ट दष्टोष्ठः, शार्दूलमिव लुब्धकः ।।२१५१।। शस्त्राशस्त्रि रणक्रीडां, कुर्वाणः कर्णमर्जुनः । छिन्नास्त्ररथसूताश्वं, पत्तिमात्रमिव व्यधात् ।।२१५२।। हत्वा कर्णमथाभ्यर्ण-मायातं वीरकुञ्जरम् । कौरवध्वजिनी चक्रे, छिन्नकर्णा किरीटिना ।।२१५३।। सिंहनादैर्भुजास्फोटै-र्भटकोटिविनिर्मितैः ।
तदा पाण्डवसैन्यान्त-र्जयकोलाहलोऽभवत् ।।२१५४ ।। * पुनर्भूरिनृपा० १.२, भूरिभूभृद्धिर० ६-१० ।। . ०क्ष्य २ ।। 0 स्वर्वाय १, स्वस्येव २.६-१० ।। १. तृणवत ९ टि० ।। २. द्यूते कपटेन पाण्डवोपरि प्राप्तजयत उन्नतं दुःशासनस्योदरम् ।। ३. प्रक्षिप्तः ।। ४. मृगया १० टि० ।। ५. शकुनिराज्ञः १० टि० ।। ६. इषुभिः अक्ष्णः =व्याप्तः ।। ७. दुर्योधनभगिनीपतिम् १० टि० ।। ८. अर्जुनम् १० टि० ।। * ०टी० ६-१० ।। । छित्त्वाशु रथसूताश्च ६-९ ।। + तदानीमवनीशेनं (०न० ४.५) कृता तेन किरीटिना कौरवध्वजिनीच्छिन्न-कर्णा वैवाभागभूत् १.३-५ अयं मूल: पाठ: १० टिप्पण्यामपि ।। ९. अर्जुनेन २.९ टि० ।। . दैःसिंहघोषैर्वीराणां गजर्जितैः २.६-९ ।। वीराणां गजगजितैः १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org