________________
२१७
श्रीदशवैकालिकसूत्रम् दन्तान् दन्तावलानां तु, सङ्ग्रामे कश्चिदाकृषत् । कर्तुं दन्तमयं नव्यं, वासवेश्म जयश्रियः ।।२१३२ ।। उदक्षिपद् द्विपं कोऽपि, गुडितं पाणिना दिवि । दृष्ट सर्वैः स उड्डीनः, सपक्ष इव पर्वतः ।।२१३३।। कश्चिद् दन्तेषु दत्वांहि-मुपर्यारुह्य रंहसा । लैङ्खित्वा लोष्टुवद्योधा-नधितष्ठौ द्विपं स्वयम् ।।२१३४ ।। महानेमिर्महातेजा, रुक्मिणं विरथं व्यधात् । अत्रान्तरे महानेमे: शक्तिं शत्रुन्तपोऽक्षिपत् ।।२१३५ ।। अथ श्रीनेमिनं स्माँह, मातलिस्तपसा प्रभो ! । बलीन्द्रादेष लेभेऽv, धरणादिव रावणः ।।२१३६ ।। वज्रं विना न भेद्यैषा, ततः श्रीनेमिशासनात् । वज्रं सङ्कमयामास, महानेमेः से सायके ।।२१३७ ।। वज्रेषुणाथ तां शक्तिं, ताडयित्वानयद् भुवम् । तमपि क्ष्मापतिं व्यत्रं, विरथं च व्यधात् तदा ।।२१३८ ।। तथा दुर्योधनं पार्थ-स्त्रासयामास सायकैः । शरवृष्ट्याप्यनाधृष्टि-वैधुर्यं रौधिरे व्यधात् ।।२१३९ ।।
इतोऽपि यदुभिरि-सैन्यं दैन्यमनीयत । मूलतोऽप्युदमूल्यन्त, द्रुमाद्या द्रुमवन्नृपाः ।।२१४०।। भीमार्जुनौ द्विषां भीमौ, रामाङ्गजा गजा इव । कौरवान् को रवान् दीनान्, कारयामासुराशु ते ।।२१४१।। :: विष्वग् घनान्धकारोऽभूत्, पतद्भिः पार्थपंत्रिभिः । अयस्फलानां तेजोभि-र्जज्ञे विद्युञ्चमत्कृतिः ।।२१४२।। . सन्धानाकर्षमोक्षाणा-मन्तरं शरवर्षिणः ।
तस्य नालक्षि शूच्याब्ज-सहस्रदलभेदवत् ।।२१४३।। .. गजानाम् २ टि० ।। २. सत्राहितम् १० टि० ।। ३. उत्क्षिप्य ।। ४. उपरि इति शेषः १० टि० ।। * प्राह १० ।। . व ६-१० ।। ५. मातलि: ।। ६. बाणे ।। ७. पृथिव्याम् १० टि० ।। ८. बाणैः ९ टि० ।। . याफ० ३.१०, यःस्फा० ६-९ ।। ९. आकृष्टधनुर्मुक्तबाणानाम् ।। १०. अर्जुनस्य ।। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org