________________
२१६
. श्रीतिलकाचार्यविरचितटीकायुतम् अमूं वीरचमूं व्यूहे, विशन्तीमन्वगुर्नृपाः । अगाधेऽप्यम्भसां राशौ, वाहिनी वेहका इव ।।२१२० ।। अभवन्नेभ्यमित्रीणा, महानेम्यादिकान् प्रति ।
महारथास्त्रयो दुर्यो-धनरौधिरिरुक्मिणः ।।२१२१ ।। एतैः षड्भिरपि द्वन्द्व-युद्धमारब्धमुद्धतम् । तद्गृह्याणां च वीराणां, मिथः प्रववृते रणः ।।२१२२।। .. केचिनिस्तूं(स्त्रिं)शलगुडै-रुत्तमाङ्गानि विद्विषाम् । उच्छालयन्तः खेलन्ति, कण्डुकानिव सङ्गरे ।।२१२३।। नर्तयन्तः करे केऽपि, कृपाणं समराङ्गणे । दर्शयन्तीव शत्रूणां, धारातीर्थं दिवः प्रदम् ।।२१२४ ।। उपकण्ठं धृतोत्कण्ठः कोऽप्यरीणां रणाङ्गणे । . जयश्रीमार्गणायेव, प्रेषयामास मार्गणान् ।।२१२५।। कोदण्डः कुण्डलीभूतः, कस्याप्याजौ बभौ भुजे । , जयश्रीमण्डनायेव कुण्डलं प्रगुणीकृतम् ।।२१२६।। । उदस्तभल्लहस्तः को-ऽप्यनीकस्मरवेश्मनि । चिकीर्षुरिव सीमन्तं, जयलक्ष्मीशिरस्यभात् ।।२१२७ ।। कोशात्कश्चन कृष्ट्वासि-रत्नं प्रेधनकाक्षिणाम् । शत्रूणां मौलिषु न्यास्थत्, तेभ्यः प्राप्तुं जयश्रियम् ।।२१२८ ।। वैरी त्क्षिप्तशीर्षाणि, दृष्ट्वा व्योम्नि सहस्रशः । प्राज्यस्वर्भाणुसम्भ्रान्त्या, त्रेसुर्देवा रणेक्षिणः ।।२१२९ ।। निष्ठितास्त्राः पुनर्युध्य-माना मानधना भटाः । केशाकेशि न्यधुर्मुष्टा-मुष्टि केचन मल्लवत् ।।२१३० ।। मौक्तिकान्यग्रहीत् कश्चित्, कुम्भान् भित्वारिकुम्भिनाम् ।
जयश्रियो विभूषायै, विधातुं मौक्तिकस्रजम् ।।२१३१।। . * पयसां ६-१० ।। १. नदः १० टि० ।। २. बलिष्ठाः ९ टि० ।। ३. रुधिरस्याऽपत्यं रौधिरिः ९ टि० ।। ॐ अयं श्लोकः ४ प्रतौ नास्ति ।। ४. खड्गः १० टि० ।। - वृ० २.३ ।। ५. सङ्ग्रामाभिलाषुकाणाम् ९ टि०, युद्ध० १० टि० ।। ६. असू क्षेपणे, अद्यतन्यां प्रथमपुरुषैकवचनं कर्तरि न्यास्थत्, कोऽर्थः ? न्यस्तवान्, न्यस्यति स्मेत्यर्थः ९ टि० ।। * ०रिषु क्षि० ५ ।। ७. राहुः ।। ८. शस्त्रशून्याः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org