________________
२१५
श्रीदशवैकालिकसूत्रम् गर्जितैर्गजराजानां, घनानां स्तनितैरिव । हयानां हेषितैः सिन्धु-मथनध्वनितैरिव ।।२१०८ ।। स्यन्दनानां च निर्घोषैः सम्पापातस्वनैरिव । सिंहनादैर्भटानां च, कण्ठीरवरवैरिव ।।२१०९।। नादैः समरतूर्याणां, दिक्चक्रप्रतिनादिभिः । सर्वतोऽप्युत्थितैः शब्दः, शब्दाद्वैतमिवाभवत् ।।२११० ।। त्रिभिर्विशेषकम् सांराविणं तदाकर्ण्य, कर्णस्फोटकर पँगे । विपक्षे समभूत् क्षोभः, किमेतदिति सम्भ्रमात् ।।२१११ । । नौसीरवीरवर्गण, द्वयोरप्यथ सैन्ययोः । शराशरिरणस्तत्र, प्रारेभे र सार्गलैः ।।२११२।। शरोत्करैः प्रसर्पद्भि-रभितोऽपि निरन्तरैः । छायार्थं युध्यमानानां, विदधे रणमण्डपः ।।२११३।। चक्रव्यूहाग्रसुभटै-रुद्भटैः स्वामितर्जितैः । किञ्चिद्वैमुख्यमानीताः, कृष्णसैन्याग्रसैनिकाः ।।२११४ ।। पराङ्मुखीभवन्तस्ते, स्वयं गरुडलक्ष्मणा । ऊवीकृत्य भुजं सर्वे, पुरस्कृत्य स्थिरीकृताः ।।२११५ ।।
अथोत्तस्थुमहानेमिः, पार्थोऽनाधृष्टिरित्यमी । त्रयः पक्षद्वयी चञ्च-स्थानाद् भूरिनृपान्विताः ।।२११६ ।। त्रयोऽप्यापूरयन् शङ्ख, स्वं स्वं नादेन तेन च । भणन्त इव शत्रूस्ते, रे रे नश्यत नश्यत ।।२११७ ।। शङ्खनादात् ततः सर्वे, कर्णकोटरमागतात् । ययुर्द्विषां भटाः क्षोभं, सिंहनादादिव द्विपाः ।।२११८ ।। युध्यमानैः साभिमानै-महानेम्यादिभिस्त्रिभिः ।
चक्रव्यूहो जेवादेव, त्रिषु स्थानेष्वभञ्जि सः ।।२११९।। • अयं श्लोक: ५ प्रतौ नास्ति ।। १. विद्युत् २ टि० ।। २. कोलाहलम् ।। - तदा २.६-१० ।। ३. नासीरं सेनामुख्यः ९ टि०, अग्रेसरः १० टि० ।। ४. तेजस्विभिः सुभटैः ९ टि०, वेगरोधकैः १० टि०।। 0 रंह० ९ ।।
दुजैः ६-१० ।। ५. अर्जुनः १० टि० ।। २ ०याञ्च० ६-१० ।। + ना भू० २ ।। ६. शीघ्रमेव ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org