________________
२१४ श्रीतिलकाचार्यविरचितटीकायुतम्
सूनवो वसुदेवस्या-ऽक्रूराद्या द्वादशोद्धताः । रथलक्षान्विता विष्णो-र्बभूवुः पृष्ठरक्षकाः ।।२०९६ ।। उग्रसेनो नृपस्तेषां, पृष्ठेऽभूद् रक्षकोटियुक् । चत्वारः सूनवोऽभूवन्, पृष्ठे तस्यापि रक्षकाः ।।२०९७ ।। दक्षिणे स्थितो व्यूह, समुद्रविजयः स्वयम् । भ्रातृभिर्धातृपुत्रैश्च, स्वपुत्रैश्च समावृतः ।।२०९८ ।। अन्येऽपि पञ्चविशत्या, रथलक्षैः समन्विताः । समुद्रविजयं भूपाः, पुत्रवत् परितोऽभवन् ।।२०९९ ।। उत्तरेण पुनर्वृह-मुद्दामा रामसूनवः । युधिष्ठिरादयः पाण्डु-तनयाश्चावतस्थिरे ।।२१००।। . पञ्चविंशतिलक्षाभिः, स्यन्दनानां वृता नृपाः । पाण्डवानां स्थिताः पृष्ठे, धार्तराष्ट्रजिघांसवः ।।२१०१।। खड्गमण्डितदोर्दण्डा-श्चण्डमार्तण्डरोचिषः । व्यूहरक्षाकृतो विष्वक्, भूभृतः शतशः स्थिताः ।।२१०२।। इत्येवं गरुडव्यूह, निर्ममे गरुडध्वजः । प्रलीयते यमालोक्य, गर्वदेर्वीकरो द्विषाम् ।।२१०३।। बान्धवस्योपरोधेन, श्रीनेमिं समरोन्मुखम् । . विज्ञाय वासवः प्रेषीद्, रथं मातलिसारथिम् ।।२१०४ ।। । बन्धूनामनुवृत्त्यैव, निर्मोहोऽप्यारुरोह तम् । बाह्यानामान्तराणां च, शत्रुणां त्रासकृत् प्रभुः ।।२१०५ ।। रणपट्टमनाधृष्टे-र्बध्वा मूर्द्धनि धन्विनः ।। समुद्रविजयक्ष्माभृ-चमूनाथपदं ददौ ।।२१०६ ।।
तदा जयजयध्वानः सकलेऽपि हरेर्बले ।
अभूदपेश्रुतिरिव, जयवादस्य भाविनः ।।२१०७।। * नास्थित २.६-९ ।। • सहपुत्रे १.३.४, सपुत्रैश्च २, महापुत्रैः ५ ।। ० पण्डु० १.३ ।। १. सर्प ९ टि० ।। २. निदर्शनम् १० टि० ।।
०ते ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org