________________
श्रीदशवैकालिकसूत्रम्
जरासन्धोऽथ दृष्टात्मा, मेने तस्य धियं शुभाम् ।
रोचते रोगिणोऽपथ्यं, न हि पथ्येन तुष्यति ।। २०८४ ।। आदिष्टाश्च चमूनाथा-स्तौ च हंसकडिम्भकौ । कारयाञ्चक्रिरे चक्र-व्यूहं ते चक्रिशासनात् ।।२०८५।। सहस्रारे च चक्रेऽस्मिन्नेकैकः प्रत्यरं नृपः । तस्थौ स्यन्दनहस्त्यश्व-पदातिव्रातसंयुतः ।। २०८६।। षड्भिर्सहस्रैर्भूपानां, तस्य प्रधिरधिष्ठिता ।
पञ्चाशत् शकटव्यूहाः, सन्धौ सन्धौ च भूभृताम् ।। २०८७ ।। तदन्तरान्तरे गुल्मा, रथेभाः सप्तविंशतिः ।
एकाशीतिश्च तेष्वश्वाः, पञ्चत्रिंशच्छतं भटाः ।। २०८८ ।। तस्थिवांस्तुम्बमाश्रित्य, रणार्णवतितीर्षया ।
२१३
जरासन्धः स्वयं पञ्च-सहस्रक्षितिपान्वितः ।। २०८९ ।। गान्धारसैन्ध्रवचमूः, पृष्ठेऽभूदर्धचक्रिणः । कौरव्याणां शतं जज्ञे, राज्ञो दक्षिणपक्षगम् ।।२०९०।। मध्यदेशीयराजानो, वामेऽग्रे गणभूभृतः । व्यूहाद्बहिः पुनस्तस्थु-र्नानाव्यूहैर्नरेश्वराः । । २०९१ । । . अथ राजा जरासन्धः, स्वयं कोशलनायकम् । नानाविधरणारम्भ-निर्व्यूढप्रौढविक्रमम् ।।२०९२।। हिरण्यनाभं राजानं, सेनान्यं सर्वराजसु । अभ्यषिञ्चत् तदा सूरो-ऽप्यस्ता भीतवद् यौ । । २०९३ ।। यदवोऽप्यथ यामिन्यां, चक्रव्यूहमपोहितुम् । तत्क्षणाद् गरुडव्यूहं व्यधुर्दम्भोलिदुर्भिदम् ।।२०९४।। व्यूहस्यास्य कुमाराणा-मर्धकोटिर्मुखे स्थिताः । युद्धश्रद्धभुजौ मूर्ध्नि, तस्थतुः शीरिशाङ्गिणी । । २०९५ ।।
९. जरासन्धेन ।। २. चक्रनाभिः ।। नाभिः प्रति० ६-१० ।। ३. सेना सेनामुखं गुल्मो, वाहिनी पृतना चमूः । । अनाकिनी च पत्तेः स्या-दिभाद्यैस्त्रिगुणैः क्रमात् ।। (अभि० ७४८- ७४९) ९ टि०, रक्षणार्थं स्थापितसैन्याः १० टि० ।। ४. पर्याप्त० १० टि० ।। इतः सार्द्धः श्लोकः ४ प्रतौ नास्ति ।। ५. वज्र० ।। ६. मस्तके १०
टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org