________________
श्रीतिलकाचार्यविरचितटीकायुतम् चतुःषष्टिरपीन्द्रा यं, नमस्यन्त्येत्य भक्तितः । तस्य श्रीनेमिनो भावी, कस्ते युधि भटः पुरः ? ।।२०७२ ।। देवीभिः कृष्णगृह्याभि-विप्रतार्य तथा हतः । कालः सुतस्ते तैद् विद्धि, दैवं विमुखमात्मनः ।।२०७३।। दिवसं स्वस्य विज्ञाय, यदवोऽतिबला अपि । मथुराँनगरी हित्वा, द्वारवत्यां पुरि स्थिताः ।।२०७४।। . . सुप्तः पञ्चाननः स्वामि-नेष जागरितस्त्वया । प्रयाणतुमुलं श्रुत्वा, तवायं सम्मुखोऽभवत् ।।२०७५ ।।
अधुनाप्यमुना सार्धं, सन्धिस्तत् क्रियते प्रभो! । विग्रहो विग्रहहर-स्ततोऽसौ नावबुध्यते ।।२०७६।।
इति तद्वचसा चक्री, हविषाग्निरिवाज्वलत् । ऊचे च मायिभिर्नूनं, यदुभिर्भेदितोऽस्यरे! ।।२०७७।। यत्त्वं शत्रुबलं शंसन्, मां भापयसि तन्मुधा । , सिंहः करिघटाभ्योऽपि, किं बिभेति ? कदाचन ।।२०७८ ।। करोमि चूर्णसाचूर्णं, गोपसैन्यमिदं हठात् ।। धिक्! ते स्वस्वामिलज्जाकृद्, वचनं रणवारणम् ।।२०७९।।
डिम्भकोऽथावदन् मन्त्री, स्वामिनो मनसःप्रियम् । प्रत्यासन्ने रणे नाप-सरणं युज्यते रणात् ।।२०८० ।। सङ्ग्रामे सम्मुखीना ये, म्रियन्ते वीरमानिनः । व्रियन्तेऽप्सरसां वृन्दैः, पुष्पवृष्टिं विमुच्यते २०८१।। रणे पराङ्मुखा ये ते, जीवन्तोऽपि मृता इव । मृतास्तु नरकं यान्ति, प्रभूणामृणकिङ्कराः ।।२०८२।। चक्रव्यूहं विनिर्माय, परचक्रेण दुर्भिदम् ।।
वैरिनिर्यातनं वैरि-निर्धातेन करिष्यते ।।२०८३ ।। १. तस्य नेमेः पुरः युधि तव को भटो भविष्यति ? ९ टि० ।। २. कृष्णाधिष्ठायकाभिः अर्थात् कुलदेवीभिः वञ्चयित्वा कालिककुमारस्तथा हतः ९ टि० ।। * ते यत्ततो विद्धि २.६-१० ।। ३. कारणाजानीहि ९ टि० ।। • रां १.२.८ ।। ४. देह० १० टि० ।। 0 ०स्त्वं २ ।। * ०महं ६-१० ।। ५. प्रतीकारम् ।। ६. मया १० टि०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org