________________
श्रीदशवैकालिकसूत्रम्
रणदीक्षामुरीकृत्य, कृतदूर्वादिमङ्गलः । अधिरूढः करिस्कन्धं, विधृतातपवारणः ।।२२०२।।
स्तूयमानबलश्चाटु-वचनैश्चाटुकारकैः । यमदूतनिभेनाहं-कारेणोत्साहितो भृशम् ।।२२०३।। कथ्यमानं विपक्षस्य, सामर्थ्यं हितचिन्तकैः । अशृण्वन्निव सञ्जात-धातुक्षोभतया तदा ।। २२०४ ।। स्वयं कृषीवलेनेव, कृतान्तेन निमन्त्रितः । शस्त्रप्रहारपृथुकं, समास्वादयितुं किल ।। २२०५ ।। निःशेषपुत्रपौत्रादि-सन्तानेन समन्वितः । मन्त्रिभिर्वार्यमाणोऽपि, रणक्षेत्रमुपागमत् ।।२१०६ ।। षड्भिकुलकम् ततः कृष्णोऽपि सङ्ग्राम-तृष्णः सङ्ग्रामदीक्षितः ।
समग्रयदुभिर्युक्तः, सुरैरिव सुरेश्वरः ।। २२०७ ।। वर्षन् योधशरासारै-र्गर्जंश्च गजगर्जितैः । शत्रुप्रतापैविध्यापनायाम्बुद इवाचलत् ।।२२०८ ।। चलिताः पश्चिमाम्भोधे- वडवाः सूर्यतेजसः । शोषायारियशोवाद्धे वडवस्येव सोदराः ।। २२०९ ।। बलदेवगृहश्रीका, लसत्कलशकेतवः ।
अटाट्यन्ते स्म साटोपा, रेथकट्याश्च कोटिशः ।। २२१० ।। पदातयः पुनः कीर्ति-वल्लीबीजनिभाः प्रभोः । असङ्ख्यताश्चरन्ति स्म, तारा इव विहायसि । । २२११ । । ताक्षैः क्षोणी, क्षुद्यमाना तदानीं; व्योम्नि स्थानं, विक्षितुं स्वस्य वस्तुम् । धूलीमूर्ध्वं प्रेषयामास खेदा-न्न क्षुद्येऽहं येन केनापि तत्र ।। २२१२ । । शालिनी पुरःसरैस्तत्र तुरङ्गसैन्यैः, खुराभिघातैर्व्यथितां धरित्रीम् ।
अनुव्रजन्तः करिणः कटोत्थै-राश्वासयन्ते मदवारिसेकैः ।।२२१३ ।। उपजातिः . १. मन्त्रिभिः ९ टि० ।। २. जरासन्ध इति शेष० ।। र्गर्जनुर्गजव्रजः २.६ १० ।। ०पम् १, ०पं विध्यातुं मूर्तोऽम्बु० २.६-१० ।। ३. वाडवाग्निसदृशाः ।। ४. अश्वसमूहस्य सहोदरसदृशा वेगवन्तः ।। ५. रथसमूहाः १०० ।। ६. अवैः ९ ० ।। ७. कपोलोत्थैः ९ टि०, गण्डोत्यैः १० टि० ।।
Jain Education International
२२३
For Personal & Private Use Only
www.jainelibrary.org