________________
२१०
. श्रीतिलकाचार्यविरचितटीकायुतम् हर्षेणोत्तारयन्तीभिः, कटाक्षरञ्चलानिव । लोजाञ्जलीन् क्षिपन्तीभि- गरीभिर्निरीक्षितः ।।२०४८।। निश्चितात्मजयः कृत्स्नैः, शकुनैरानुकूलिकैः । मौनसोत्साहिनातीव-पवनैरनुगामिभिः ।।२०४९।। दिने क्रोष्टुकिनिर्दिष्टे, रथी दारुकसारथिः । विष्णुः पूर्वोत्तरामाशां, प्रत्यचालीद् बलान्वितः ।।२०५० ।। षड्भिः कुलकम् स्वतः पुरात् पञ्चचत्वारिंशतं योजनात् पथा । सिनपल्याह्वये ग्रामे, शिबिरं स्वं न्यवेशयत् ।।२०५१।।
चतुर्भिर्योजनैः कृष्ण-सैन्यादरिबले स्थिते । समुद्रविजयं केचि-देत्यावीचन्नभश्चराः ।।२०५२।। गुणगृह्या भवद्भातु-र्वयमानकदुन्दुभेः । स्वामिन्नायाम वैताढ्या-दाख्यातुं वस्ततो हितम् ।।२०५३।। साहायिकं भवन्तः किं, कुतोऽपीच्छन्ति ? दोभृतः ।, परं स्वाजन्यतोऽत्रार्थे सौजन्यं प्रणुनोद नः ।।२०५४ ।। ये वैताढ्ये जरासन्ध-गृह्या सन्ति नभश्चराः । तत्पार्श्वे नागता एव, साधितास्ते सुखाकराः ।।२०५५।। सेनान्यं वसुदेवं तत्, शाम्बप्रद्युम्नसङ्गतम् । नियुक्ष्व येन शत्रूस्तां-स्तबलाद् विजयामहे ।।२०५६।। समुद्रविजयः शाम्ब-प्रद्युम्नानुगमादिशत् । सेप्रक्षरं सिंहमिव, दुन्दुं कृष्णाभ्यनुज्ञया ।।२०५७।। चलिते वसुदेवेऽथ, स्वामिनारिष्टनेमिना । दत्तौषधी तनुत्राी, शस्त्रप्रहारवारिणी ।।२०५८ ।।
इतश्च मगधाधीशं, मुख्यो मन्त्रिषु हंसकः ।
विज्ञो विज्ञापयामास, मन्त्रपूर्वमिदं वचः ।।२०५९।। १. लूण उतारती भाषा० ।। २. साईव्रीहीणामञ्जलीन् ।। * oष्ण: १.६-१० ।। - मनसोत्साहिनातीवपवनेनानुगामिना ९ ।। ३. किं भूतः पवनेन स्पृश्यमान इत्यध्याहार्यः ९ टि० ।। ४. अपि तु मेत्यर्थः १० टि० ।। ।। सेनपल्यां० त्रि० ८/७/१९६ ५. पाखरइ (बख्तरसहित) सिंघ कीजिउ ९ टि० ।। - वसुं ६.७.९.१० ।। ६. वसुं १ टि०, वसुदेवम् २ टि०, वसुदेवं समुद्रविजयः सेनान्यमादिशत् ९ टि० ।। ७. कवचसमाना ।। * ०ता ६.८-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org