SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् • सोऽतितेजस्विभिः शूरैः, भूरिभिः परिवारितः । अवामंस्तैकसूरस्य, ग्रहचक्रस्य वामताम् ।।२०३६ ।। बिभेति यः सदा राहो-रबाहोरपि कातरः । बलं किमिन्दोस्तस्येति, मेने तदपि नैव यः ।।२०३७ ।। उद्दण्डमण्डलाओण, भिन्ते यो राजमण्डलम् । पँतीकं तस्य किं कुर्या-दपरं ग्रहमण्डलम् ।।२०३८ ।। चचालाखिलभूमीभृद्, वाहिनीभिः समन्वितः । पारावार इवोद्वेलः, स सर्वां प्लावयन् महीम् ।।२०३९।। आपतन्तं जरासन्धं, झगित्यागत्य नारदः । शशंस कंसविध्वंस-कारिणे कलिकौतुकी ।।२०४०।। कृष्णः कृष्णीकृतद्वेषि-मुखः प्रत्यर्थिसम्मुखः । रणकण्डूलदोर्दण्ड-श्चण्डो भेरीमताडयत् ।।२०४१।। दशाप्यरिकृतोच्चाला, दिक्पाला इव देहिनः । दशार्हाः सदृशास्तेि, समुद्रविजयादयः ।।२०४२।। सपुत्रपौत्रसन्ताना-श्चलन्ति स्म महाबलाः । स्वस्वसेनापरीवारा, वैरीवृन्देन्दुराहवः ।।२०४३।। युग्मम् जामातरोऽथ जामेया, गोत्रिणो गर्गरोद्भवाः । अन्येऽपि यदुराजानः, प्रीतास्तत्र तदामिलन् ।।२०४४।। दधिचन्दनदूर्वाद्यैः, कृतयात्रिकमङ्गलः । स्वबन्धुकुलवृद्धाभि-राशीभिरभिनन्दितः ।।२०४५।। उत्तम्भितभुजैर्भट्टै-वर्ण्यमानपराक्रमः । र्धनस्तनितसङ्काश-स्वननिःस्वाननिस्वनः ।।२०४६।। चित्रवादिनिर्घोष-मुखरीकृतदिङ्मुखः । कृतसौराविणः पौरै-र्जयशब्दस्य वीप्सया ।।२०४७ ।। १. अपमानितः ।। २. सूर्यस्य ।। ३. तरवारेरग्रेण ९ टि० ।। ४. प्रतिकूलम् २ टि०, विपरीतम् ९ टि० ।। * : पम् ६-१० ।। ५. समुद्रः ।। ६. आगच्छन्तम् ९ टि० ।। ७. कृष्णाय ।। ८. शत्रु० ९ टि० ।। ९. भागिनेया: ९टि० ।। १०. प्रस्थानप्रस्थितमङ्गल: ९ टि० ।। ११. उच्चैः कृतबाहाभिः ९ टि० ।। १२. यथा-आहते तव निःस्वाने, स्फुटितं रिपुहद्धटैः । गलिते तत्प्रियानेत्रे, राजश्चित्रमिदं महत् ९ टि० ।। * ०स० १० ।। १३. - कोलाहलः १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy