SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् अधिकं लाभमिच्छन्तः, पुरे राजगृहाभिधे । वणिजस्ते व्रजन्ति स्म, विक्रेतुं रत्नकम्बलान् ।।२०११ । । न रत्नकम्बलांस्तत्र, गृही गृह्णाति कश्चन । सर्वस्वेनापि तन्मूल्यं, न स्यात् तद्वासिनां यतः । । २०१२ । । आस्ते जीवयशास्तत्र, पुत्री राज्ञोऽतिवल्लभा । तन्निवासिवणिग्भिस्ते, ततोऽनीयन्त तद्गृहे । । २०१३ ।। अदर्शयंश्च ते जीव-यशसो रत्नकम्बलान् । सुखाकरतरस्पर्शान्, म्रक्षणादपि कोमलान् ।।२०१४।। वटच्छायादिवच्छीते, उष्णानुष्णे च शीतलान् । देवदूष्यकृतस्पर्द्धान्, वैहलश्लक्ष्णरोमकान् ।।२०१५।। लाभोऽस्तु दूरे मूल्यार्थं, कम्बलानां तया कृतम् । अथोचुस्ते वयं मुक्त्वा, द्वारिकां किमिहागताः ? ।।२०१६ ।। तानप्राक्षीत् जीवयशाः, का नाम द्वारिका पुरी ? | कश्च तस्यां महीपालः ?, तस्याश्चामी अँचीकथत् ।।२०१७।। अन्तसमुद्रं नगरी, द्वारिकाख्या सुरैः कृता । भोगावतीव पाताला-न्निर्गता भोगिसङ्कुला ।।२०१८।। एतद्वः पत्तनं तेस्या, भातीवान्त्यजपाटकः । तस्यां कृष्णः क्षमाध्यक्षः, प्रत्यक्ष इव नागराट् । । २०१९ ।। इति श्रुत्वा जीवयशाः, सोरस्ताडं तदारुदत् । जीवत्यद्यापि कंसारि-रनुशास्ति च मेदिनीम् ।।२०२० ।। श्रुत्वा तां रुदन्तीं राजा, जरासन्धोऽभ्यधादिदम् । पुत्रि ! रोदिषि किं ? साख्यत्, कृष्णवृत्तमथाखिलम् ।। २०२१ । । रटन्ती कर्णाकटुकं, बद्धाञ्जलिपुटं पितुः । पुनर्विज्ञपयामास, तात! मां विसृजाधुना ।। २०२२ ।। पूरयामि प्रतिज्ञां स्वां, प्रविशामि हुताशनम् । येन भ्रष्टप्रतिज्ञानां, जीवितान्मरणं वरम् ।।२०२३ ।। १. दृढ० १० टि० ।। त्व० २ ।। ५ ० त्य० २ ।। २. द्वारिकायाः ।। सौरः स्ता० १.३ ।। रुद० ६ १० ।। है ०टा ६-१० ।। Jain Education International २०७ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy