________________
२०६ . श्रीतिलकाचार्यविरचितटीकायुतम्
भामायै सोऽथ गत्वाख्यात्, साथ दध्याविदं कथम् ? । ततस्तत्र स्वयं याता, शाम्बोऽथ प्रणनाम ताम् ।।१९९९।। साथ रोषारुणावादीत्, केनानीतोऽसि धृष्ट! रे! । सोऽप्यूचेऽहं त्वया निन्ये, कन्याश्च परिणायितः ।।२००० ।। साक्षिणोऽत्र पुरीलोकाः, साथ पप्रच्छ तानिति । ऊचुस्ते देवि! मा कोपीः, शाम्बोऽत्रानीयत त्वया ।।२००१ ।। अस्माकं पश्यतामेवा-कारि कन्याकरग्रहम् । साक्षिभूते पुरीलोके, तस्याः क्रोधो मुधाभवत् ।।२००२।। त्वया मायाप्रपञ्चेन, प्रपञ्चज्ञास्मि वञ्चिता । सत्याथ शाम्बमित्युक्त्वा, विलक्षा स्वगृहेऽगमत् ।।२००३।। अथ सर्वसमक्षं ताः, सर्वाः कन्याश्चतुर्भुजः । ददौ शाम्बाय चक्रेऽथ, जाम्बवत्युत्सवं परम् ।।२००४ ।। प्रद्युम्नोऽथ प्रकाशोऽभूत्, तदा स्वभ्रातुरुत्सवे । , सत्याशापाऽभ्रविगमे, भास्वानिव विहायसि ।।२००५ ।।
इतश्च जवनद्वीपाद्, द्वारिकायां जलाध्वना । पण्यान्यादाय भूयांसि, वणिजः केचिदाययुः ।।२००६।। मन्यते तां पुरीं दृष्ट्वा, स्वर्णरत्नमयालयाम् । अत्रत्यजनभाग्येना-वतीर्णा स्वःपुरीमिव ।।२००७।। एक एवालकापुस्, श्रूयते धनदोऽधिपः । एकैकस्मिन्नपि गृहे, जनोऽत्र धनदाधिकः ।।२००८।। इदं च प्रान्तनगरं, तदपीदृशमद्भुतम् । यत्रार्धचक्रवर्त्यस्ति, तद्भविष्यति कीदृशम् ? ।।२००९।। मध्यस्थानां क्रयाणानां, कृत्वा तत्रैव विक्रयम् ।
लाभं शतगुणं प्राप्य, प्रमोदभरनिर्भराः ।।२०१० ।। १. कृष्णः ।। * अयं श्लोकः ६-९ प्रतिषु नास्ति ।। . ०पा द्वा० १.३-५.७.१० ।। - पश्यन्तस्तां पुरीं दिव्य० २.६-१० ।। मन्येऽत्रत्यनृणां भाग्यैः, स्वःपुरीयमवातरत् २.६-१० ।। है नृपः ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org