SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् २०५ इतश्च भीरवे भामा-मेलयत् कन्यकाशतम् । एकोनमतियत्नेन, कन्यामेकामवेक्षते ।।१९८७ ।। प्रज्ञप्त्या रुक्मिणीसूस्तत्, ज्ञात्वा सेनां विकृत्य च । जितशत्रुर्नृपो जज्ञे, स्वयं शाम्बस्तु पुत्रिका ।।१९८८ ।। तञ्च भामा परिज्ञाय, नियोज्य नरमात्मनः । भीरोरर्थेऽर्थयाञ्चक्रे, तां कन्यां जितशत्रुतः ।।१९८९।। जितशत्रुस्तमूचेऽथ, भामया प्रेषितं नरम् । भामास्वहस्ते धृत्वाऽv, द्वारिकां चेत् प्रवेक्ष्यति ।।१९९० ।। विवाहकाले मत्युत्र्याः, करं भीरुकरोपरि । यदि कारयते भामा, तद् ददामि सुतामहम् ।।१९९१ ।। गत्वाथ स नरः सर्वं, भामायै तदचीकथत् । तदङ्गीकृत्य सत्यागात्, कन्यार्थं शिबिरे स्वयम् ।।१९९२ ।। प्रज्ञप्तिं स्माह शाम्बस्तु, लोकोऽयं शाम्बमेव माम् । विदाङ्करोतु सत्या तु, कन्यकां तज्जनोऽपि च ।।१९९३ ।। तस्मादथ स्वयं कन्यां, भामादाय करेण ताम् । शाम्बमेव परं लोकै-दृश्यमानं गृहेऽनयत् ।।१९९४ ।। {द्युम्नोऽप्यागमत् तत्र, विवाहमहहेतवे । वैवाहिकस्य रूपेण, जितशत्रोर्महीभुजः ।।१९९५ ।। शाम्बः कृत्वा कर भीरोः, करोपर्युपैयेमिवान् । तदेकोनं शतं स्त्रीणां, स्वेन दक्षिणपाणिना ।।१९९६।। शाम्बं कन्यास्तु पश्यन्त्यः, समस्तास्तं बभाषिरे । पुण्येनाभूस्त्वमस्माकं, पतिौर्या इवेश्वरः ।।१९९७ ।। अथ शाम्बः समं ताभि-सिवेश्मन्युपेयिवान् । भीरुकं तत्र चायान्तं, भ्रूक्षेपेणाक्षिपत् क्षणात् ।।१९९८ ।। .०वैक्षत ५, ०वेक्ष्यत ६.८-१० ।। १. जानातु ९ टि० ।। २. सत्यभामापरिवारः ।। । अयं श्लोकः ६-८ प्रतिषु नास्ति ।। ३. उपययाम-विवाहं कृतवान् ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy