________________
२०४ . श्रीतिलकाचार्यविरचितटीकायुतम् .
तक्रविक्रायणौ पश्य-नाभीरीरूपमोमहितः । तक्रक्रयणदम्भेन, शाम्बस्तामाह्वयत् तदा ।।१९७५ ।। आभीरेण समं शाम्ब, सान्वगाद् गजगामिनी । मॉर्गदेवकुलं शाम्बः, प्रविश्याह्नत तां पुनः ।।१९७६ ।। सोचे देह्यत्र मे मूल्यं, चेद् ग्रहीष्यसि गोरसम् । प्रविशात्र ददामीति, जल्पन् धृत्वा करेण ताम् ।।१९७७।। शाम्बः क्रष्टुमुपाक्रंस्त, दन्ती चूतलतामिव । अरे स्मरान्ध! किं दृष्ट्या, न पश्यसि निरर्गल! ।।१९७८ ।। काप्यसाविति सद्यस्तौ, जातौ जाम्बवतीहरी । लज्जितोथ पलायिष्ट, शाम्बो जाम्बवती ततः ।।१९७९ ।। कृष्णोऽवक् पुत्रदुश्चेष्टा, दृष्टा साभूदधोमुखी । प्रापन् मध्येसभं शाम्बः, कीलकं घटयन् प्रगे ।।१९८० ।। युग्मम् अन्यायीत्यथ कृष्णेन, शाम्बो निर्वासितः पुरात् । , अङ्गजोऽपि किं व्याधि-छिद्यते यदि वा जने ।।१९८१।। प्रद्युम्नः प्राग्भवस्नेहाद्, विद्यां प्रज्ञप्तिनामिकाम् । अक्षय्यमिव पाथेयं, ददौ शाम्बाय गच्छते ।।१९८२।।
एकदा भानुकं निघ्नन् प्रद्युम्नो भामयोच्यत । किमद्यापि नगर्यास्त्व-मरे! निर्यासि शाम्बवत् ।।१९८३।। सोऽवक् क्व यामि ? साप्याह, स्मशानेऽागतिः कदा ? । करे धृत्वा यदा शाम्बं, पुर्यन्तः स्वयमानये ।।१९८४ ।। जग्मिवान् रौक्मिणेयोऽथ, स्मशानं भामयेरितः । अमिलत् तत्र शाम्बोऽपि, स्वैरचारकुतूहली ।।१९८५।। तौ स्मशानावनौ सन्तौ, शुल्कं दाहस्य चक्रतुः ।
तदा दानं विना दग्धुं, शवानि ददतुर्न तु ।।१९८६।। *०णः ६-१० ।। - नारीरूपविमोहितः ६-९ ।। 0 ०र्गे ८ ।। * भू० ४-७.९ ।। २ ०ल: ५-१० ।। . ०तीसुतः ६.८-१० ।। १. कीलिकाम् ।। २. शरीरोत्पन्नो रोगः ।। . ०क्ष्य० १-८ ।। ३. प्रद्युम्न आह इति शेषः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org