________________
श्रीदशवैकालिकसूत्रम्
रन्त्वा निशामशेषां स, तया सार्द्धं गतस्ततः ।
वैदर्भी निद्रया प्रेम्णा, सख्येवालिङ्गिता प्रगे । । १९६३ । । नवोढामिव तां दृष्ट्वा, प्रातः प्रपच्छ भूपतिः । न वाग्मुद्रां बिभेदासौ, नरेन्द्रो द्राक् ततोऽकुपत् ।।१९६४ ।। तावेवाकार्य चण्डालौ, तां ददौ चण्डशासनः ।
पश्चात्तापोऽभवत् पश्चात्, हा! किमेवं मया कृतम् ? ।।१९६५।। काकस्य कन्धराबन्धे, न्यक्षेप्येकावली मया । दोसेरकस्य वा पादे, नूपुरं विनियोजितम् ।।१९६६ । । प्रार्थ्यमानापि रुक्मिण्या, भगिन्या मे स्वसूनवे । न क्रोधान्धदृशाऽदायि, धिग्मां वैदर्भि ! दुर्धियम् ।।१९६७ ।। विलपन्नेवमाकर्ण्य, कर्णसौख्यकरं स्वरम् । कुत्राऽयमिति पृष्टे च नियुक्तः शिष्टवानिति । । १९६८ । । प्रद्युम्नशाम्बौ वैदर्भी - सहितौ नगराद्बहिः ।
सौधे विमानसध्रीचि, विद्येते विबुधाविव ।।१९६९ ।। सङ्गीते तत्पुरः स्फीते, भवत्येष स्वरोद्गमः । प्रीतो रुक्मी ततः सद्य-स्तावानीय गृहे स्वयम् ।।१९७० ।। तदा जोमेयजामातृ-स्नेहतः सच्चकार तौ । वैदर्भीशाम्बयुक्तोऽगात्, प्रद्युम्नो द्वारिकामथ ।।१९७१ । । हेमाङ्गदसुतां शाम्बः, सुहिरण्यामुपायत । हन्ति स्म रमयन्नित्यं, भामेयं भीरुकं तथा । । १९७२ ।। शाम्बरावां हरिः श्रुत्वा, जाम्बवत्यै न्यवेदयत् । सा प्राह न कदाप्यागा-दुपालम्भः सुतस्य मे । । १९७३ ।। तस्याः प्रत्ययमाधातुं, विष्णुर्जाम्बवतीयुतः ।
आभीररूपः पूद्वरि-ऽस्थाद् भूत्वा तक्रविक्रयी । । १९७४ ।।
१. समम् ३ टि० ।। * सह ६-१० ।। २. वैदर्भी किञ्चिदपि नोवाच ।। ५०व १ ।। ३. उष्ट्रस्य १० टि० ।।
• स्वसृ० ६-१० ।। ०न्निशि ६ - ९ ।। वैदर्भीसहितः शाम्ब:, प्रद्युम्नश्च पुराद्बहिः २.६ -१० ।। ४. प्रेक्षणा यद् गीतं तत् संङ्गीकम् २ टि० ।। ५. भागिनेय० ।।
Jain Education International
२०३
For Personal & Private Use Only
www.jainelibrary.org