________________
श्रीदशवकालिकसूत्रम् • मुनिरूचेऽथ किञ्चिन्मे, दत्वा स्वस्थं मनः कुरु ।
येन त्वत्पृष्टमाख्यामि, स्वस्थे चित्ते हि धीभवेत् ।।१९१५ ।। रुक्मिण्यूचेऽथ कृष्णार्था, मोदकाः सन्ति नापरम् । ते त्वन्यदुर्जराः किञ्चि-दुद्वेगानास्ति पाचितम् ।।१९१६।। तत्किं ददामि ते ? सोऽवक्, किञ्चिन्मे नास्ति दुर्जरम् । सैकैकशो ददौ न्याद, मोदकान् सोऽखिलान् क्रमात् ।।१९१७।।
इतः पॅटलिकाहस्ताः, प्रेषिताः सत्यभामया । दास्यः केशानयाचन्त, रुक्मिणीपार्श्वतो जितान् ।।१९१८ ।। मायासाधुस्तदाकर्ण्य, कृत्वा भामासमाः स ताः । पूर्णाः पटलिकाः केशै-स्तदीयैः प्रेषयत् ततः ।।१९१९ ।। सत्याकुपत् तदालोकात्, प्रेषीत् तत्राथ चारकान् । याचतो रुक्मिणीकेशान्, कुष्णसूस्तनिकुट्टयत् ।।१९२० ।। भामाथ कुपिता सद्यः, सभामासाद्य केशवम् । ययाचे रुक्मिणीकेशान्, साक्षी त्वमसि यत्प्रिय! ।।१९२१ ।। केशार्थमाग़मन्नीला-म्बरः पीताम्बरेरितः । कृष्णसूः कृष्णरूपेण, मातुः पार्श्वे स्थितस्तदा ।।१९२२ ।। ह्रिया रामो वलित्वागात्, स्थानं प्राक्तनमेव हि । तत्राप्यूचेऽच्युतं दृष्ट्वा, प्रारेभे नर्म किं त्वया ? ।।१९२३।। भामातिक्रोधधामाथ, श्रुत्वेमां सात्वतीं गिरम् । सर्वांस्तान् दाम्भिकान् मत्वा, जगामात्मगृहं ततः ।।१९२४ ।।
रुक्मिण्यै नारदोऽप्याख्यत्, प्रद्युम्नोऽयं सुतस्तव । स्वरूपस्थस्ततो भूत्वा, नमश्चक्रे स्वमातरम् ।।१९२५ ।। पयसा साञ्जनेनाक्ष्णोः, स्तनयोरुज्वलेन च ।
देर्वाक्षतैश्चिरायात-मवर्द्धयदिवात्मजम् ।।१९२६।। .०चे यत्० ६.८.-१० ।। ॐ धी भ० १.३.४ ।। १. अपाच्याः ।। 0 ०के० १.५.१० ।। २. बुभुजे ।। ३. टोपली इति भाषा० ।। ना० १ ।। ४. उपहासः ।। ५. रामसम्बन्धिनीम् ।। ६. धरो इति भाषा० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org