________________
श्रीतिलकाचार्यविरचितटीकायुतम् जनन्या अपि न स्तन्य-मपामाजन्मतोऽप्यहम् । ततो मां तपसोऽमुष्य, पारणं कारयाधुना ।।१९०३।। रुक्मिण्युवाच बालर्षे!, हर्षाहर्षाकुलास्म्यहम् । हृष्टा त्वदर्शनेनास्मि, सत्पात्रादानतोऽपरा ।।१९०४ ।। मुनिरूचे विषण्णेव, किं विशादस्य कारणम् ? । पौलोमीव सुरेन्द्रस्य, त्वमुपेन्द्रस्य वल्लभा ।।१९०५ ।। रुक्मिण्यूचेऽथ मे पुत्रो, जातमात्रोऽपि केनचित् । पापिनापहतस्तेन, विषादः खादतीव माम् ।।१९०६।। तदाप्त्यै चिरमाराद्धा, कुलदेव्यपि निःफला । अवकेशीव जातेति, प्रकान्तोऽस्याः शिरोबलिः ।।१९०७।। तुष्टाथ कुलदेवी मे, मत्वा सत्त्वातिशायिताम् । साहसात् कस्य वा न स्यात्, सिद्धिः सर्वसमृद्धिकृत् ? ।।१९०८ ।। ऊचे स्वकीयमाकन्दः, सम्भाव्यः सर्वदा त्वया । , अकाले कलितः पुष्पैः, सुतसङ्गमलग्नकः ।।१९०९ ।। इति तद्वाक्सुधा सूनु-विरहानलदाहहत् । समभून्मम जिवातु-र्यावद्वर्षाणि षोडश ।।१९१० ।। अयं रसालसाल: स, मञ्जरीपिञ्जरोऽभवत् । पश्यामि न पुनः सूनु-मनूनानन्ददायिनम् ।।१९११ ।। न सुधाऽपि सुधा मेने, चन्दनं न च चन्दनम् । न हारस्तापसंहार-हेतुः सुतवियोगतः ।।१९१२ ।। स्वदनं केदनं मेऽभूद, भूषणं दूषणं पुनः ।
ओंकल्पः कल्पकल्पश्च, विना सूनुं ममाधुना ।।१९१३।। सद्यः प्रसद्य बालर्षे!, ब्रूहि प्रियंवद! प्रियम् ।
कदा मे पुत्रसम्प्राप्तिः, सत्यं स्याद् बालभाषितम् ।।१९१४ ।। * हर्षाद्धर्षा० ९, हर्षोत्कर्षा० ८ ।। १. अहृष्टा ।। . व्हस्यैवं ६-१० ।। २. वन्ध्या २ टि०, अफलवृक्षा १० टि० ।। - ०बलिम् ९ ।। ३. शिरसः बलिः १० टि० ।। ४. आत्मीयसहकारिततः ९ टि० ।। ५. असारभोजनम् १० टि० ।। * भू० १.२ ।। ६. वेषरचना १० टि० ।। ७. भारकल्पः २ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org