________________
श्रीदशवैकालिकसूत्रम्
१९७ • द्विजीभूय पठन् वेदं, प्रद्युम्नः प्रविशन् पुरीम् । भामायाः कुब्जिकां दासी-मजूचक्रे स्वविद्यया ।।१८९१ ।। प्रीतयार्थीनयानायि, स भामाभवने द्विजः । ऊचेऽहं विदधे देवि!, शरवत् सरलामुना ।।१८९२ ।। तं भामाप्याह कुरु मां, रुक्मिणीरूपतोऽधिकाम् । सोऽवक् मुण्डितमुण्डा त्वं, मषिमण्डितविग्रहा ।।१८९३।। पुरो भव यथा कुर्वे, रूपं निरूपमं तव । सापि चक्रे तथा सर्वं, दोषं ह्यर्थी न पश्यति ।।१८९४ ।। विप्रोऽप्यूचे न मे विद्या, क्षुधितस्य स्फुरिष्यति । सत्यापि तं भोजयितुं, सुपकारं न्यरूपयत् ।।१८९५ ।। विप्रोऽपि कर्णे सत्याया, मन्त्रन्यासममुं व्यधात् । ॐ रुडू बुडूस्वाहेति, जपन्ती मन्त्रमुत्तमम् ।।१८९६।। कुलदेव्याः पुरस्तिष्ठे-र्यावदनाम्यहं शुभे! । निन्ये रसवती निष्ठा-मश्नन् तां बटुकोऽपि सः ।।१८९७ ।। विद्यासिद्धः स दुःपुरो-दरो लोभाब्धिगर्तवत् । अथातृप्त इवोत्थाय, विप्रः कोपादपासरत् ।।१८९८ ।।
अथ क्षुल्लकवेषं स, कृत्वागाद् रुक्मिणीगृहे । रुक्मिण्या आसनं दित्सोः, कृष्णसिंहासनेऽविशत् ।।१८९९।। कृष्णं वा कृष्णसूनुं वा, विनान्यमिह विष्टरे । नासीनं सहते पीठा-धिष्ठात्री कस्ततोऽसको ?।।१९०० ।। ध्यात्वेति रुक्मिणी स्माह, विकसन्नेत्रपङ्कजा । तं पुत्रमिव पश्यन्ती, बालर्षे! किमिहागमः ? ।।१९०१।। मुनिः प्राह गृहे तेऽह-मशनार्यन् क्षुधातुरः ।
आगच्छं वत्सले ऽस्म्येष, षोडशाब्दान्युपोषितः ।।१९०२।। .०थ तया ६-१० ।। १. परिपूर्णाम् ९ टि० ।। २. प्रद्युम्नः ।। * सु० ६.८-१० ।। ३. अनादराई षष्ठी, रुक्मिणीदत्तमासनमनादृत्य ।। ४. असौ ९ टि० ।। 0 प्रा० १० ।। * विपन्नानन० ६-१०।। ५. अतिलोभेनाशनमिच्छतीति १० टि० ।। है ०य ८.९ ।। - ०लो ५.१० ।। ६. षोडशवर्षाणि १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org