SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् इतश्च प्रेक्ष्य वैताढ्ये, प्रद्युम्नं च नवयौवनम् । ऊचे कनकमाला सा, तीव्रस्मरशराहता ।।१८६७।। पतितः पथि लब्धस्त्वं, संवरेण न मे सुतः । तन्मां भज रतिप्रायां, स्मरप्राय! तैवोचिताम् ।।१८६८।। मैत्तो विद्ये गृहाण त्वं, गौरी-प्रज्ञप्तिनामिके । खेचरेण न केनापि, येन जातु विजीयसे ।। १८६९ ।। अन्तर्निश्चित्य नाकृत्यं, कृत्यं मे सत्क्रियाविदः । मेत्वा तद्वचनं विद्ये, गृहीत्वासाधयत् सुधीः ।। १८७० ।। त्वं मे माँतेव यज्जात-मात्रोऽहं वर्धितस्त्वया । सुविद्यश्च कृतस्तेन, मा भूर्मां प्रति कामुकी ।।१८७१ ।। वापीं कैलम्बुकां यातः, प्रद्युम्नोऽथ पुराद्बहिः । चक्रे कलकलं पापा, स्वनखैः स्वं विदार्य सैौ ।।१८७२ ।। प्रद्युम्न कृतमेवैत-दिति साचष्ट दुष्टधीः । जिघांसूंस्तत्सूतान् प्राप्ता-नथासौ हतवान् जवात् ।।१८७३ ।। संवरोऽप्यागतः पुत्र-पीडया निर्जितः क्षणात् । ज्ञापयित्वाथ तत्कान्ता-वृत्तान्तं प्रत्यबोधि सः । । १८७४ ।। आगमन्नारदस्तत्र, प्रद्युम्नायाथ तेन तत् । तज्जन्मादिकथावृत्तं, कथितं सर्वमादितः ।।१८७५।। अधुंना सत्यभामायाः, सूनोर्भानोः करग्रहः । भावी ततो भवन् मातुः, केशान् भामा ग्रहीष्यति । । १८७६।। श्रुत्वेति कृष्णसूस्तूर्णं, द्वारिकायां सनारदः । ययौ विमानं प्रज्ञप्ति-कृतमारुह्य रंहसा ।।१८७७।। प्रद्यम्नः स्वयमुत्तीर्य, विमानस्थेऽपि नारदे । अमुचद् भानुकोद्वाह्यां, कन्यां हृत्वोपनारदम् ।।१८७८।। १ ०० ६-९ ।। १. मत्सकाशात् ।। ७ ममेदं ४ ।। २. बहिः (इति शेषः) १० टि० ।। ० ००६-१० ।। नामविशेषः ।। च ६.८-१० ।। ४. कनकमालापुत्रान् ।। ५. प्रद्युम्नः ।। Jain Education International १९५ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy