________________
१९४ .
श्रीतिलकाचार्यविरचितटीकायुतम् अभिगम्य समुद्राद्या, भगिनीं भ्रातरोऽनमन् । प्रणतान् भागिनेयांश्च, दशार्हाः परिरेभिरे ।।१८५५ ।। ऊचुर्दशार्दा है जामे!, दिष्ट्या दृष्टाः सुतास्तव । यद्दायादपलादेभ्यो, जीवन्तोऽमी इहागताः ।।१८५६।। दत्ताशीः कुन्त्यपि स्माह, जीविता ससुताप्यहम् । यन्नाऽनुधावताप्याप्ता, यूयं कालेन कालवत् ।।१८५७।। दिव्यं च चरितं शीरि-शाङ्गिणोर्भुवनातिगम् । श्रुत्वा तद्दर्शनोत्कण्ठा, प्रेरिताहमिहागमम् ।।१८५८ ।।
अथ कुन्ती सपुत्रापि, गच्छति स्म सभां हरेः । रामकृष्णौ ससंरम्भा-वभ्युत्थाय प्रणेमतुः ।।१८५९।। पाण्डवा रामकृष्णाभ्यां, सह प्राग्वद्यथोचितम् । अनुक्रमं कृताश्लेष-प्रणामाः समुपाविशन् ।।१८६० ।। ऊचे कृष्णः कृतं साधु, युष्माभिर्यदिहागताः । , श्लाध्यते सैव लक्ष्मी-र्भुज्यते या सेबन्धुभिः ।।१८६१।। युधिष्ठिरोऽभ्यधात् तेषा-मायाति श्रीः स्वयंवरा । ये स्पृश्यन्ते स्म सस्मेरा-स्त्वलोचनमरीचिभिः ।।१८६२ ।। अस्मन्मातृकुलोत्तंसे, सूर्यवत्तपति त्वयि । अप्रधृष्ट्या भविष्यामो, वयं वैरितमोभरैः ।।१८६३।। हरिः सत्कृत्य सम्मान्य, कुन्ती कुन्त्यात्मजानपि । आवासानार्पयत् तेषां, भिन्नान् सर्वद्धिसंयुतान् ।।१८६४ ।। शार्हाः पाण्डवेभ्यस्ता, ददिरे कन्यकाः क्रमात् । लक्ष्मीवतीं वेगवती, सुभद्रां विजयां रतिम् ।।१८६५ ।। नित्यं सक्रियमाणास्ते, रामकृष्णादिभिर्भृशम् ।
युधिष्ठिरादयस्तत्र, तस्थुः पश्चापि सुस्थिताः ।।१८६६ ।। १. अश्लिष्यन् ।। २. हे भगिनि ९ टि० ।। ३. भाग्येन ९ टि० ।। ४. दायादाः गोत्रिणः ९ टि० ।। ५. कालिककुमारेणानुगच्छता यत् नाप्तान व्याप्ताः ९ टि०, जरासङ्घपुत्रेण १० टि० ।। ६. आपे त्यागी गुणे रागी, इष्टैः सह यद्भुक्तं तु ९ टि० ।। ७. पराभूता न भविष्यामः ।। * अयं श्लोक ६ प्रतौ नास्ति ।। . अयं श्लोक १० प्रतौ नास्ति ।। - सुखं पश्चापि तस्थिरे ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org