________________
श्रीदशवैकालिकसूत्रम् • इत्येवं मुनिना ख्याते, दैवीवागभवद्दिवः । साध्वमी पतयोऽभूव-निति सर्वेऽथ मेनिरे ।।१८४३।। तैरेव वरणायातै, राजभिः स्वजनायितैः । द्रौपदी जनितोत्साहाः, पाण्डवाः परिणिन्यिरे ।।१८४४ ।। __ अथ पाण्डुः समस्तं तत्, कृष्णप्रभृतिराजकम् । जन्ययात्रागतमिवा-नैषीन्निजपुरेऽखिलम् ।।१८४५।। सर्वान् सत्कृत्य वस्त्राद्यै-र्दशार्हान् रामकेशवौ । अन्यानपि च राजन्यान्, व्यसृजत् पाण्डुभूपतिः ।।१८४६।। राज्ये युधिष्ठिरं न्यस्य, पाण्डुः स्वर्गममण्डयत् । कुन्त्यै दत्वा सुतद्वैतं, मद्री पत्या सहागमत् ।।१८४७ ।। गतेऽस्तं पार्थिवे पाण्डौ, पाण्डवान् प्रति मत्सरात् । धार्तराष्ट्रा राष्टलुब्धा-स्तच्छिद्रान्वेषिणोऽभवन् ।।१८४८।। दुर्योधनो राज्यवृद्धान्, विनयाद्यैरतोषयत् । पाण्डवेभ्योऽजयद्राज्यं, छूते मूढैः पणीकृतम् ।।१८४९।। दुर्योधनोऽग्रहीत् सर्वं, द्रौपदीं तु जितामपि । भीमपक्षीन्द्रतो भीतो, भेकी भोगीव सोऽमुचत् ।।१८५०।। अथ दुर्योधनाद्यैस्ते, सामान्यजनमात्रवत् । मुषिताशेषसर्वस्वा, निरवाँस्यन्त पाण्डवाः ।।१८५१।। सर्वे विक्रमिणोऽत्यन्तं, सर्वे सर्वकलालयाः । परं दुर्दैवयोगेन, छूते राज्याद्यहारयन् ।।१८५२।। दैवं रुष्टं चपेटां किं, विश्राणयति ? जातुचित् । किन्तु तां दुर्मतिं दत्ते, यया रेलति रङ्कवत् ।।१८५३।। ततो वनाद्वने भ्राम्यन्, चिरं वर्नचरा इव ।
दशाहा॑नुज्ञया कुन्ती, द्वारिकां तानथानयत् ।।१८५४।। १. गरुडः ।। * ०स्तैः ६-१० ।। * ०का० ६-१० ।। २. देव जु रूठउ किं करइ ९ टि० ।। ३. लोठते-दुःखीभवति ।। * ०न० ६-९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org