SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् वातायनगतोऽन्येद्युः, श्रेष्ठी कर्परपाणिकम् । जीर्णशीर्णाशुकधरं, भिक्षाकं मक्षिकाप्रियम् ।।१८२० ।। आकार्य श्रेष्ठिना सोऽपि, प्रोक्तः किं वत्स ! भिक्षसे । जामातरं करोमि त्वां, रङ्कोपकरणं त्यज ।।१८२१।। हृष्टस्तत्याज रङ्कस्तत्, श्रेष्ठिना स्नपितोऽथ सः । प्रदत्तवस्त्रालङ्कार-श्चर्चितश्चन्दनेन च ।।१८२२ ।। ऊचे चेयं मया पुत्री, दत्ता ते सुकुमारिका । सर्वचिन्ताविमुक्तस्त्वं, भुङ्क्ष्व भोगान् सहानया ।। १८२३।। इत्युक्तः सोऽविशद् वास- गेहं सह तयास्वपीत् । कपिकच्छूस्पृष्टवैद् द्राक्, तद्वपुःस्पर्शतोऽभवत् ।।१८२४ ।। सोऽप्युत्थाय परित्यज्य, श्रेष्ठिदत्तांशुकादिकम् । स्वमेवोपधिमादाय, रात्रावेव पलायितः ।।१८२५।। सा निषण्णा विषण्णाथ, चन्द्रलेखेव वासरे । विच्छायाश्रूणि मुञ्चन्ती, दृष्ट्वा पित्रेत्यभाष्यत ।।१८२६।। वत्से! रङ्कोऽप्यसौ यत् त्वा-मर्त्याक्षीत् कुतोऽपि हि । तत्र प्राक्कर्मणामेव, दोषोऽन्यन्नैव कारणम् ।।१८२७।। त्यक्तकामा ततो दानं ददाना मन्दिरे मम । भोगान्तरायं दानेन, त्रुटयेद् यदि परं ततः ।।१८२८।। पित्रादेशाद् ददत्यस्ति, दानं सा शान्तमानसा । आगमंस्तद्गृहेऽन्येद्यु-रार्या गोपालिका इति । । १८२९ ।। प्राशुकैरेषणीयैस्ताः, सान्नाद्यैः प्रत्यलाभयत् । श्रुत्वा तत्सन्निधौ धर्मं, जातश्रद्धाग्रहीद् व्रतम् ।।१८३०।। दुस्तपानि तपांस्युच्चै-स्तपस्यन्ती महासती । + गोपालीकाभिरार्याभि-र्विजहे सह निःस्पृहा । । १८३१ । । ०क्षु० ५-१० ।। ७ इव द्राग् वपुः ६.१० ।। १. सन्मानितः (इतिशेषः) ९ टि० ।। २. तूटइ (तूटे) ९ टि० ।। ॐ ०व ६-१० ।। ३. सुकुमारिका ।। ४. विहरति स्म ।। नि० २ ।। Jain Education International १९१ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy