SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९० श्रीतिलकाचार्यविरचितटीकायुतम् सुतस्ते गृहजामाता, सागरश्चेद् भवेन्मम । ततस्तस्मै ददाम्येतां, सुतां सार्द्धं धनैर्घनैः ।।१८०७।। आलोच्याख्येयमित्युक्त्वा, जिनदत्तोऽगमद् गृहे । सागरस्य तदाचख्यौ, सोऽपि मौनेन तस्थिवान् ।। १८०८ ।। अनिषिद्धं ह्यनुमत-मिति विज्ञाय तन्मनः । मेने सागरदत्तोक्तं, जिनदत्तस्ततोऽखिलम् ।।१८०९।। विवाहोऽथ कृतस्ताभ्यां, तयोः स्वापत्ययोस्तदा । सागरोऽथ समं पत्न्या, वासागारमशिश्रियत् ।।१८१०।। प्राक्कर्मवशतस्तस्याः, स्पर्शेनाङ्गारसङ्गिना । सागरो दह्यमानोऽस्थाद्, भ्राष्ट्रक्षिप्त इव क्षणम् ।।१८११ ।। ज्वलच्चितामिव त्यक्त्वा, सुप्तां तां सँ गृहेऽगमत् । विनिद्रा पतिमप्रेक्ष्य, गतोऽसौ वेति सारुदत् । ।१८१२ । । नवोढ्योः प्रगे दन्त-शौचं दातुं सुभद्रया । चेट्यादिष्टा पतित्यक्तां, रुदन्तिं तां निरैक्षत ।।१८१३।। आख्यच्चेटी सुभद्रायाः, सुभद्रा श्रेष्ठिनः पुनः । जिनदत्तमथ श्रेष्ठी, सोपालम्भमवोचत ।।१८१४।। एकान्ते सुतमाकार्य, जिनदत्तोऽभ्यधादिदम् । नैतत् कुलोचितं वत्स !, यत् कुलीना प्रियोज्यते ।। १८१५ ।। सम्प्रत्यपि ततो वत्स !, प्रयाहि स्वप्रियान्तिके । प्रतिपन्नं मयापीदृक्, तदा पुत्रीपितुः पुरः ।।१८१६।। व्याकरोत् सागरोऽप्येवं, ममायं तात ! निश्चयः । विशामि वह्नौ न पुनः, स्पृशामि सुकुमारिकाम् ।।१८१७।। स्वसुरोऽन्तर्हितो भित्त्या, जामात्रोक्तं निशम्य तत् । निराशोऽगाद् गृहे पुत्री - माह मैवाधृतिं कृथाः । । १८१८ ।। वत्से ! त्वयि कुतोऽप्येष सागरोऽतिविरागवान् । ततोऽन्विष्यापरः कोऽपि पतिस्तव करिष्यते ।। १८१९ ।। ०पि ६-१० ।। ५०० ५-८ ।। स्व० २.४ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy