________________
श्रीदशवैकालिकसूत्रम् ऋषिहत्या कृता नाग-श्रियेति प्रसृतं जने । उक्तं हि श्रूयत एव, कृतं ज्ञायत एव च ।।१७९४ ।। सोमाद्यैरपि तज्ज्ञातं, चरितं लोकवार्तया । ततस्तैर्धिकृता पापा, नागश्रीनिन्दिता भृशम् ।।१७९५ ।। इत्येवं ते जुगुप्सित्वा, तां गृहानिरसारयन् । सर्वैर्निर्भत्स्यमाना सा, ग्रामाद् ग्राममथाभ्रमत् ।।१७९६ ।। रोगैः षोडशभिः क्रान्ता, कासश्वासज्वरादिभिः । इहापि नारकी पीडां, प्राप पापफलं हि सा ।।१७९७ ।। पेटञ्चराम्बरधरा, क्षुत्तृषार्ता निराश्रया । रङ्कीव पर्यटन्ती सा, मृत्वा षष्ठी महीं ययौ ।।१७९८ ।। उद्धृत्य नरकान् म्लेच्छा-दिषूत्पद्य विपद्य च । द्वौ द्वौ वारौ ततः पापात्, सर्वेषु नरकेष्वगात् ।।१७९९ ।।
पृथ्वीकायादिषु ततो, भ्रान्त्वानेकासु योनिषु । अकामनिर्जरायोगात्, प्रतलीकृत्य कर्म तत् ।।१८०० ।। पुर्यामत्रैव चम्पायां, श्रेष्ठिसागरदत्तसूः ।
सुभद्राकुक्षिसम्भूता, सुताभूत् सुकुमारिका ।।१८०१।। युग्मम् ... तत्रैव जिनदत्तोऽभूत्, सार्थपो जिनभक्तिभाक् ।
भद्राभिधा च तत्पत्नी सागरस्तस्य दारकः ।।१८०२।। व्रजन् सागरदत्तस्य, जिनदत्तो गृहान्तिके । यौवनोद्भेदरम्याङ्गी, कुमारी सुकुमारिकाम् ।।१८०३।। क्रीडन्ती कन्दुककरां, सौधोपरि निरीक्ष्य ताम् । मत्पुत्रस्यानुरूपेय-मिति ध्यायन् गृहं ययौ ।।१८०४ ।। स्वबन्धून् मेलयित्वाथ, जिनदत्तस्तदौकसि । गत्वा याचितवानात्म-पुत्रार्थं तस्य पुत्रिकाम् ।।१८०५।। ऊचे सागरदत्तोऽसौ, पुत्री प्राणाधिका मम ।
स्थातुमेतां विना नाहं, ततः क्षणमपि क्षमः ।।१८०६।। तज्ञा० १.३.७.१०, तं ज्ञा० ६.८, तद्वृत्तं विज्ञातं ९ ।। १. स्फटितवसना ९ टि०, जीर्णवस्त्र १० टि० ।। . इतो द्वौ श्लेको ६ प्रतौ न स्तः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org