SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १८८ श्रीतिलकाचार्यविरचितटीकायुतम् एकात्मजीवरक्षार्थं, बहवो जीवकोटयः । दुःखे क्षिपन्ति ये केsपि, ते किं शाश्वतजीविताः ? ।।१७८२ ।। विनिहत्य परप्राणान्, सैप्राणं स्वं करोति यः । स स्वमऽह्नां कृतेऽल्पानां, सैपाप्मानं करोति किम् ? ।।१७८३ ।। अस्त्वेकस्यैव मे मृत्यु-र्जीवन्तु प्राणिनोऽपरे । इति निश्चित्यं चित्तॆ तत्, तुम्बमत्ति स्म स स्वयम् ।।१७८४ ।। अथानशनमाधाय, सन्तोषामृतनिर्वृतः । उपधिं दूरतः कृत्वा, त्यक्तोभयपरिग्रहः ।। १७८५ ।। क्षमयित्वाखिलान् जीवान्, चतुः शरणमाश्रितः । विषतुम्बकदात्रीं तां प्रत्यप्यद्विष्टमानसः ।।१७८६।। स्वकृतं दुःकृतं गर्हन्, सुकृतं चानुमोदयन् । भाँवयन् भावनाः स्वान्ते, सर्वेन्द्रियसमाहितः ।।१७८७।। आराधनासुधाधारा-धोरणीधवलात्मकः । शक्रस्तवं भणित्वाथ, कृतदेवगुरुस्मृतिः ।।१७८८।। परमेष्ठिनमस्कारं, भावसारं समुच्चरन् । मृत्वा सर्वार्थसिद्धेऽभू-दहमिन्द्रसुरोत्तमः ।।१७८९ ।। त्रिभिर्विशेषकम् इतश्च गुरवो धर्मरुचेरुग्रतपस्विनः । विलम्बकारणं ज्ञातुं, प्रेषयन् परितो मुनीन् ।।१७९० ।। ते बहिस्तं मृतं दृष्ट्वा तस्योपधिमथाखिलाम् । आनीयाढौकन्नाख्यन्, गुरूणां तद्यथेक्षितम् ।।१७९१ । । ततः श्रुतोपयोगेन, ज्ञात्वा गुरुरभाषत । धन्यो धर्मरुचिर्जीव-रक्षां चक्रे स्वमृत्युना ।।१७९२ ।। विधायाराधनां दिव्यां, सर्वार्थसिद्धिभागभूत् । नागश्रियश्च दुर्वृत्तं, साधुसाध्वीजनस्य तत् ।।१७९३ । । युग्मम् १. सबलम् ९ टि० ।। २. दिवसानाम् ।। ३. पापसहितम् ९ टि० ।। ०न्त्य ५ ।। ०त्तेन ६-१० ४. बाह्याभ्यन्तररूपः ।। भावना भावयन् ६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy