________________
.
१८६ श्रीतिलकाचार्यविरचितटीकायुतम्
नामग्राहं प्रतीहार्या, दिश्यमानेषु राजसु । द्रौपदी प्रेक्षमाणागात्, यत्र तिष्ठन्ति पाण्डवाः ।।१७५८।। पञ्चस्वप्यनुरक्ताभूत्, तेषु सा वरमालिकाम् । पञ्चानामपि कण्ठेषु, न्यक्षिपत् पाण्डुजन्मनाम् ।।१७५९।। किमेतदिति चित्रीय-माणाः सर्वेऽभवन्नृपाः । यावत् तावत् कुतोऽप्यागात्, तदानीं चारणो मुनिः ।।१७६० ।। चारणषिं ततस्तत्र, प्रणिपत्य प्रमोदतः । कृष्णादयो महीपालाः, पृच्छन्ति स्म सविस्मयाः ।।१७६१ ।। बढ्योऽपि परिणीयन्ते, स्त्रियः पुंभिः स्थितिीसौ । ' पुंसोऽनेकान् पुनर्नारी, नौद्वहन्ती श्रुता क्वचित् ।।१७६२।। तत् किं द्रौपद्यसौ साधो!, भाविनी पञ्चभर्तृका ? । चारणपिरथाख्यौ, विज्ञायाधिसंविदा ।।१७६३।।। भविष्यत्येव नन्वेषा, द्रौपदी पञ्चभर्तृका । .. ईदृक् येनानया कर्म, पूर्वस्मिन्नर्जितं भवे ।।१७६४ ।।
तथा ह्यत्रैव भरते, चम्पायामभवन् द्विजाः । सोमदेवः सोमभूतिः, सोमदत्तश्च सोदराः ।।१७६५ ।। सर्वसम्पर्जुषां तेषां, भवन्ति स्म क्रमादिमाः । नागश्रीरथ भूतश्री-र्यक्षश्रीश्चेति वल्लभाः ।।१७६६।। मा भूत् कलत्रपुत्रादे-वैमनस्यं कदापि नः । इति स्नेहस्य रक्षार्थं, पार्थक्यं भ्रातृभिः कृतम् ।।१७६७ ।। व्यवस्था विदधे चैषा, सकुटुम्बैरपि त्रिभिः । एकैकस्य गृहे कार्यं, वारंवारेण भोजनम् ।।१७६८ ।। एवं विदधतां तेषां, सोमदेवगृहेऽन्यदा ।
सम्प्राप्ते वारके भोक्तुं, नागश्रीः प्रगुणं व्यधात् ।।१७६९।। * ०ह० १ ।। १. पश्यन्ती ९ टि० ।। २. आश्चर्यपराजिता राजानः ९ टि० ।। ३. विवाहयन्ती ९ टि० ।। ४. बभाषे ९ टि० ।। ५. अवधिज्ञानेन ९ टि० ।। . ०त्वे० ५.७. ।। ६. दर्शयति ९ टि० ।। 0 जः ६-१० ।। * ०धु० २.६-१० ।। ७. मनसो वैरूप्यम् ९ टि० ।। ८. पृथग्भाव: ९ टि० ।। ९. अन्योन्यं वचनं चक्रे=आपमाहि बोल कीया ९ टि० ।। भोक्तुं वारे क्रमप्राप्ते ३-५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org