________________
श्रीदशवकालिकसूत्रम् पाण्डोः पत्न्या द्वितीयायाः, मत्र्याः शल्यस्वसुः सुतौ । नकुलः सहदेवश्च, तनुजौ मनुजोत्तमौ ।।१७४६।। पश्चापि पाण्डवा जैत्राः, स्मरस्येव शिलीमुखाः । सुरासुरैरप्यजय्याः, स्फूर्जद्भुजबलौजसः ।।१७४७।। अनुक्रमं विनीतास्ते, राजनीत्यादिकोविदाः । लोकपा इव पञ्चापि सर्वलोकातिगैर्गुणैः ।।१७४८ ।।
द्रुपदक्ष्माभुजोऽन्येधु-Vतः काम्पिल्यपत्तनात् । समागत्य नमस्कृत्य, पाण्डुराजं व्यजिज्ञपत् ।।१७४९।। चुलनीकुक्षिभूदेव!, सुता द्रुपदभूभुजः । धृष्टद्युम्नानुजा कन्या, द्रौपदीत्यस्ति विश्रुता ।।१७५० ।। तस्याः स्वयंवरे स्वामिन्!, दशार्हा रामकेशवौ । रुक्मी कर्णो दामघोषि-दमदन्तः सुयोधनः ।।१७५१।। अन्येऽप्यनेके भूपाला, भूपालानां सुता अपि । राजौहूताः प्रभूतास्ते, सन्त्यायान्तः समन्ततः ।।१७५२।। युग्मम् कुमारैः पञ्चभिः सार्द्ध-मेतैः पृथ्वीपुरन्दर ! । तत्रालङ्क्रियतामेत्य, स्वयंवरणमण्डपः ।।१७५३।। सुतैस्तैः पञ्चभिः सार्धं, जगज्जैत्रपराक्रमैः । काम्पिल्यमगमत् पाण्डुः, प्राप्ताश्चान्येऽपि भूभुजः ।।१७५४ ।। सञ्चक्रे द्रुपदस्तत्र, सर्वानेकैकशो नृपान् ।। स्वयंवरमथाध्यासन्, विमानमिव नाकिनः ।।१७५५।। स्नात्वाथ शुचिसर्वाङ्गा, दिव्याभरणधारिणी । द्रौपद्यर्हन्तमभ्यर्च्य, स्वसखीवृन्दवेष्टिता ।।१७५६।। स्वयंवरमेवातारीद्, दिवो देववधूरिव ।।
व्योममध्यमिवानेकैः, राजहंसैविराजिता ।।१७५७।। • जित्वा ५ ।। १. विनायकादि पञ्च १० टि० ।। २. शिशुपाल: ९ टि० ।। • जा० ४.६-१० ।। ३. आगच्छन्त आसते । आवण लागा राजानः (आववा लाग्या राजाओ) इति ९ टि० ।। 0 ०र: १.६.७.९, रम् १० ।। ४. आरुहन् ९ टि० ।। * अभ्यर्च्य द्रौपदी नेमिम् २.६-९. ।। ५. आगमत् ९.टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org