________________
१८४ श्रीतिलकाचार्यविरचितटीकायुतम्
च्युत्वातो रुक्मिणी साभूत्, परं वर्षाणि षोडश । लप्यते पुत्रविरहं, प्राच्यकर्मानुभावतः ।।१७३३ ।। श्रुत्वेत्यागत्य वैताढये, प्रद्युम्नं प्रेक्ष्य नारदः । रुक्मिणीकृष्णयोश्चेदं, सर्वमावेद्य यातवान् ।।१७३४।। सुतस्य सुस्थितत्वेन, तद्योगस्य च भाविनः । जिनादिष्टात् प्रहृष्टौ तौ, दम्पती तस्थतुः सुखम् ।।१७३५ ।।
इतश्च कुरुरित्यासीत्, पूर्वं श्रीऋषभाङ्गजः । यदीयनामधेयेन, कुरुदेशोऽभिधीयते ।।१७३६।। कुरोर्हस्तीसुतो जज्ञे, यन्नाम्ना हस्तिनापुरम् ।। गतेष्वसङ्ख्यभूपेषु, जातो राजाथ शान्तनुः ।।१७३७ ।। गङ्गा सत्यवती चेति, तस्यासीत् प्रेयसीद्वयम् । गङ्गायास्तनुजन्माभूद्, भीष्मो भीष्मपराक्रमः ।।१७३८ ।। चित्राङ्गदश्चित्रवीर्यः, सत्यवत्याः पुनः सुतौ । . अम्बिकाऽम्बालिकाऽम्बेति, चित्रवीर्यस्य वल्लीः ।।१७३९ ।। धृतराष्ट्र-पाण्डु-विदुराः, क्रमात् तासां च सूनवः । पाण्डु विन्यस्य राज्ये स्वे, शान्तनुः स्वःपुरीमंगात् ।।१७४०।। पर्यणैषीनृपः पाण्डु-र्दशार्हाणां सहोदराम् ।। सर्वस्त्रैणशिरोरत्नं, कुन्तादेवीं महासतीम् ।।१७४१।। स्वसारं शल्यराजस्य, मद्रिकां भद्रिकां पुनः । अद्वितीयां द्वितीयां च, रूपसम्पज्जितामरीम् ।।१७४२।। धृतराष्ट्र राष्ट्रचिन्ता-भारमारोप्य निर्वृतः । बभूव पाण्डुरुद्दण्ड-प्रकटाखेटकप्रियः ।।१७४३।। उदूहे धृतराष्ट्रोऽष्टौ, कन्याः सुबलजन्मनः । गान्धारेशस्य शकुने-र्गान्धार्याद्याः सहोदराः ।।१७४४ ।। दुर्योधनप्रभूतयो, जातास्तासां शतं सुताः ।
पाण्डोर्युधिष्ठिरो भीमा-ऽर्जुनौ कुन्त्या स्तनन्धयाः ।।१७४५।। * ०भ्य० ८ ।। • ज्ञेयो ६-९ ।। 0 ०बा० २.४ ।। बा० ४.५ ।। ०भा २ ।। १. युवराजो बभूव ३ टि० ।।रीम् १ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org